________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
चारित्रसंयुतां विजानन्ति, तथा मां पातु पावक इति संबन्धः ॥२७॥ रामानु०-आदित्य इत्यादि । एते यथा मां चारित्रसंयुता विजानन्ति, तथा मां पातु पावक इत्यनुषक्तेन संबन्धः ॥ २७ ॥ परिक्रम्य प्रदक्षिणीकृत्य । निस्सङ्गेन शरीरे निरभिलाषेण, अन्तरात्मना मनसा । उपलक्षणे तृतीया ॥२८-३०॥ ददृशु रिति । आज्याहुतीमिवेत्यादिदृष्टान्तेन देव्याः परमपावनत्वं द्योत्यते ॥ ३१ ॥ वसोर्धारा सन्ततां घृतधाराम् । अनेनाम्युज्जृम्भणं गम्यते ॥ ३२॥
एवमुक्त्वा तु वैदेही परिक्रम्य हुताशनम् । विवेश ज्वलनंदीप्तं निस्सङ्गेनान्तरात्मना ॥२८॥ जनः स सुमहांस्त्रस्तो बालवृद्धसमाकुलः । ददर्श मैथिली तत्र प्रविशन्ती हुताशनम् ॥२९॥ सा तप्तनवहेमामा तप्तकाञ्चनभूषणा । पपात ज्वलनं दीप्तं सर्वलोकस्य सन्निधौ ॥ ३० ॥ ददृशुस्तां महाभागां प्रविशन्ती हुताशनम् । सीतां कृत्स्नास्त्रयो लोकाः पुण्यामाज्याहुतीमिव ॥ ३१ ॥ प्रचुक्रुशुः स्त्रियः सर्वास्तां दृष्ट्वा हव्यवाहने । पतन्ती संस्कृतां मन्त्रैर्वसोर्धारामिवा ध्वरे ॥ ३२॥ ददृशुस्तां त्रयो लोका देवगन्धर्वदानवाः । शप्तां पतन्ती निरये त्रिदिवाद्देवतामिव ॥ ३३ ॥ तस्या माग्निं विशन्त्यां तु हाहेति विपुलस्वनः । रक्षसां वानराणां च सम्बभूवाद्धृतोपमः ॥३४॥ इत्या श्रीरामायणे वाल्मी कीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकोनविंशत्युत्तरशततमः सर्गः ॥ ११९॥ देवाः स्वर्गवासिनः। गन्धर्वा भूलोकवासिनः । दानवाः पातालवासिनः । सकलभोगाईरूपवत्याः सीतायाः अनलप्रवेशस्यानहत्वानिरयपतनानई स्वर्गीयदेवतादृष्टान्तः॥३३॥ तस्यामिति । अद्भुतोपमः अद्भुततुल्यः। रावणागमनमारभ्य एतावत्पर्यन्तं सीतायाः परमभागवतभूतलक्ष्मणापचारफल) मुपपादितम् । वस्तुतः सीताया रावणागमनकाले अग्नौ प्रविष्टत्वात्तस्याः पुनरुद्गमनार्थ मायासीताया रावणगृहीताया अग्नौ प्रवेश इत्यप्याहुः ॥३४॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकोनविंशत्युत्तरशततमः सर्गः ॥ ११९॥ चारित्रामेव मामन्यायेन दुष्टौ जानाति । तथा चेत् पावको मां सर्वतः पातु, केशाम्बरादीन्यपि मा धाक्षीदित्यर्थः ॥२५-३१॥ प्रचुकुशुरिति । वसोर्धारी सन्तता घृतधारामिव ॥३२॥ निरये दुःखभूयिष्ठे स्थाने ॥३३॥३४॥ इति श्रीमहेश्वरतीर्थ श्रीरामायण युद्धकाण्डव्याख्यायाम् एकोनविंशत्युत्तरशततमस्सर्गः ॥ ११९॥
For Private And Personal Use Only