________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
व्यपदिशन् कीर्तयन् ॥ २०॥ तदर्थमिति । तदर्थ कुलार्थम्, अभिष्वङ्गः आसक्तिः, अनुरागो वा ॥ २१ ॥ इति प्रव्याहृतमित्यादिश्वोकद्वय मेकान्वयम् । अत्र लक्ष्मणादौ मनःकरणं नाम अनाथाया रक्षकत्वेन तत्तद्गृहे वर्तनम् । भर्ना परित्यक्तायाः स्त्रियो बन्धुगृहे वासविधानात् । “न स्त्री
रावणाङ्कपरिभ्रष्टा दृष्टां दुष्टेन चक्षुषा । कथं त्वां पुनरादद्यां कुलं व्यपदिशन महत् ॥२०॥ तदर्थ निर्जिता मे वं यशः प्रत्याहृतं मया। नास्ति मे त्वय्यभिष्वङ्गो यथेष्टं गम्यतामितः ॥२१॥ इति प्रव्याहृतं भद्रे मयैतत् कृत बुद्धिना । लक्ष्मणे भरते वा त्वं कुरु बुद्धिं यथासुखम् ॥ २२॥ सुग्रीवे वानरेन्द्रे वा राक्षसेन्द्रे विभीषणे । निवेशय मनः सीते यथावा सुखमात्मनः ॥२३॥न हि त्वां राक्णो दृष्ट्वा दिव्यरूपां मनोरमाम । मर्षयेत चिरं सीते स्वगृहे परिवर्तिनीम् ॥२४॥ ततः प्रियाईश्रवणा तदप्रियं प्रियादुपश्रुत्य चिरस्य मैथिली। मुमोच बाष्पं सुभृशं प्रवेपिता गजेन्द्रहस्ताभिहतेव सल्लकी ॥२५॥ इत्याचे श्रीरामायणे श्रीमद्युद्धकाण्डे अष्टादशोत्तरशततमः सर्गः ॥१८॥ एवमुक्ता तु वैदेही परुषं रोमहर्षणम् । राघवेण सरोषेण भृशं प्रव्यथिताऽभवत् ॥१॥ सातदश्रुतपूर्व हि जने महति मैथिली। श्रुत्वा भर्तृवचो रूक्षंलज्जया वीडिताऽभवत् ॥२॥ प्रविशन्तीव गात्राणि स्वान्येव जनकात्मजा। वाक्छल्यै
स्तैःसशल्येव भृशमश्रूण्यवतयत् ॥३॥ स्वातन्त्र्यमईति" इति स्मृतेः । न त्वत्रान्यथाग्रहीतुं युक्तम् । महापुरुषेण तादृशोक्त्ययोगात् ॥ २२-२४ ॥ सल्लकी गजभक्ष्यलताविशेषः ॥२५॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अष्टादशोत्तरशततमः सर्गः ॥ ११८॥ ४ अथ सीताग्निप्रवेशः-एवमुक्ता विति । स्पष्टम् ॥ १ ॥ जने महति महाजनमध्ये लजया ब्रीडिता, अतिनम्रमुखी बभूवेत्यर्थः ॥२॥ प्रविशन्तीवेति । व्यपदिशन् प्रख्यापयन् ॥ २०॥ तदर्थ शत्रुहस्तगता सीता प्रत्याहतेति यशस्सम्पादनार्थम् । अभिष्वङ्गः आसक्तिः ॥ २१ ॥ लक्ष्मण इति । पुत्रसदृशेषु लक्ष्म णादिषु मध्ये या कुत्रापि मनो निवेशय, आत्मभरणार्थमिति शेषः ॥ २२-२४॥ मियाईअक्षणा प्रिय श्रवणाहों । गजेन्द्रहस्ताभिहता सल्लकी लता यथा क्षीर मुश्चति तथा बाप मुमोचेत्यर्थः ॥२५॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामापणतत्त्वदीपिकाख्यायो युद्धकाण्डव्यारूपायाम् अष्टादशोत्तरशततमः सर्गः॥११॥ १॥ सेति । महति जने लजया वीडिताऽभवइ, लज्ज पाऽतिनम्र नुखी वभवेत्यर्थः ॥२-४॥
For Private And Personal Use Only