________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
अद्येति । आत्मनः प्रभवामि स्वतन्त्रो भवामि ॥ ४॥ मया विरहिता यावं चलचित्तेन रक्षसा नीता । तया त्वया हेतुभूतया दैवसंपादितः दोषः । अवमानः मानुषेण प्रमार्जितः, देवकृतं पुरुपयत्नेन निवारितमिति भावः ॥५॥ धर्षणाया अमार्जने दोपमाह-सम्प्राप्तमिति । प्रमाजति प्रमाष्टि ॥ ६॥ इदानी हुनुमदादिपौरुषस्यापि धर्षणावमार्जनहेतुत्वमाह-लङ्घनं चेत्यादिना । समुद्रस्य लङ्घनं लङ्काया अवमर्दनम् इत्येवंरूपं हनुमतः श्ाध्य
अद्य मे पौरुषं दृष्टमद्य मे सफलः श्रमः। अद्य तीर्णप्रतिज्ञत्वात् प्रभवामीह चात्मनः ॥४॥ या त्वं विरहिता नीता चलचित्तेन रक्षसा । दैवसम्पादितो दोषो मानुषेण मया जितः ॥५॥ सम्प्राप्तमवमानं यस्तेजसा न प्रमाजति । कस्तस्य पुरुषार्थोऽस्ति पुरुषस्याल्पतेजसः ॥६॥ लङ्घनं च समुद्रस्य लङ्कायाश्चावमर्दनम् । सफलं तस्य तच्छ्लाघ्यं महत् कर्म हनूमतः ॥७॥ युद्धे विक्रमतश्चैव हितं मन्त्रयतश्च मे । सुग्रीवस्य ससैन्यस्य सफलोऽद्य परि श्रमः॥८॥ निर्गुणं भ्रातरं त्यक्त्वा यो मा स्वयमुपस्थितः । विभीषणस्य भक्तस्य सफलोऽद्य परिश्रमः ॥९॥ इत्येवं ब्रुवतस्तस्य सीता रामस्य तद्वचः । मृगीवोत्फल्लनयना बभूवाश्रुपरिप्लुता ॥१०॥ पश्यतस्तां तु रामस्य भूयः क्रोधी व्यवधत। प्रभूताज्यावसिक्तस्य पावकस्येव दीप्यतः ॥११॥ स बद्धाभ्रकुटीं वक्त्रे तिर्यक्प्रेक्षित लोचनः। अब्रवीत् परुषं सीतां मध्ये वानररक्षसाम् ॥ १२॥ कर्म चाद्य सफलम् । धर्षणापरिमार्जनेन सफलमित्यर्थः ॥ ७ ॥ मन्त्रयतः चिन्तयतः ॥ ८॥ निर्गुणमिति । तस्येत्यध्याहार्यम् ॥९॥ तद्वचः नैराश्येनोक्तं वचः। तस्य अवतः तस्मिन् अवति सति ॥१०॥ पावकस्येति । पावकस्य क्रोधोऽत्तीव ज्वलनम् ॥ ११॥ तिर्यक्रेक्षितलोचनः तिर्यक मया विरहिता या त्वं चलचिनेन रक्षसा नीता त्वया हेतुभतया देवसम्पादितो दोषो मानुषेण मया जितः । मानुषेण पौरुषेणेति वा जितः प्रमृष्टः, देवकृतं पुरुषयत्नेन निराकृतमिति भावः ॥५-१॥ इत्येवमिति । तद्वचः नैराश्यद्योतकं वचः, निशम्येति शेषः ॥ १०॥ ११ ॥ तिर्यक्रेक्षितलोचनः तिर्यग्भूतं प्रेक्षित | स०-पश्यतस्तां वित्यादिश्लोकायस्थ स्थाने-पश्यतस्ता तु रामस्प समीपे हृदयप्रियाम् । जनवादभवादाको बभूव हृदयं द्विधा ॥ ११ ॥ सीतामुत्पलपत्राक्षी नीलकुचितपूर्वजाम् । अवदी वरारोडी मध्ये वानररक्षसान ॥ १२॥ इति भोकरय पाटान्तरायन यते ॥ हृदयपियां मनोहराम् । श्रीवत्सावितरमारूपत्वदा । एतादादन्यदर्शन स्वीकारणेतः । जनवादः नापवादः । द्विधा ब्रह्मा वा याज्या बेति ॥ ११ ॥
For Private And Personal Use Only