________________
Shri Mahar Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kalassagarsun Gyarmandir
था...
व्ययायां हेतुमाह-कलत्रेति ॥ ३२॥ अवलीयन्ती सङ्कचन्ती ॥३३॥३४॥ विस्मयात् अवटितरामपुनदर्शनाद्विस्मयः । प्रियस्य दर्शनेन प्रहर्षः। नेहा टी.यु.का. स्वाभाविकः । उदीक्षणकालिकमुखप्रसादमाह सौम्येति ॥ ३५ ॥ अथेति । उदितपूर्णचन्द्रेत्यनेन कोपरक्तत्वमुक्तम् । विमलशशाङ्केत्यनेन उत्तरकालिकास. ११८ क्षयः सूच्यते ॥ ३६॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने सप्तदशोत्तरशततमः सर्गः ॥ ११७॥
ततो लक्ष्मणसुग्रीवो हनुमांश्च प्लवङ्गमः । निशम्य वाक्यं रामस्य बभूवुर्व्यथिता भृशम् ॥ ३१ ॥ कलत्रनिर पेक्षश्च इङ्गितरस्य दारुणः । अप्रीतमिव सीतायां तर्कयन्ति स्म राघवम् ॥३२॥ लज्जया त्ववलीयन्ती स्वेषु गात्रेषु मैथिली । विभीषणेनानुगता भर्तारं साऽभ्यवर्तत ॥ ३३ ॥ सा वस्त्रसंरुद्धमुखी लज्जया जनसंसदि। सरोदासाद्य भर्तारमार्यपुत्रेति भाषिणी ॥३४॥ विस्मयाच्च प्रहर्षाच्च स्नेहाच्च पतिदेवता। उदेक्षत मुखं भर्तुः सौम्यं सौम्यतरानना ॥ ३५॥ अथ समपनुदन्मनःक्लमं सा सुचिरमदृष्टमुदीक्ष्य वै प्रियस्य । वदनमुदितपूर्णचन्द्रकान्तं विमलशशाङ्क निभानना तदानीम् ॥ ३६ ॥ इत्यार्षे श्रीरामायणे. श्रीमयुद्धकाण्डे सप्तदशोत्तरशततमः सर्गः ॥ १७ ॥
तां तु पार्श्वस्थितां प्रा रामः सम्प्रेक्ष्य मैथिलीम् । हृदयान्तर्गतक्रोधो व्याहतुमुपचक्रमे ॥१॥ एषाऽसि निर्जिता भद्रे शत्रु जित्वा मया रणे । पौरुषाद्यदनुष्ठेयं तदेतदुपपादितम् ॥ २ ॥
गतोऽस्म्यन्तममर्षस्य धर्षणा सम्प्रमार्जिता । अवमानश्च शत्रुश्च मया युगपदुद्धृती ॥३॥ अथ रामपरुषोक्तिः-तां तु पार्श्वस्थितामित्यादि । प्रहां लज्जया नम्राम् ॥ १॥ एषेति प्रत्यक्षेण दर्शयति । भद्रे इत्यसम्बन्धनिवेदकसम्बोधनम् । पौरुषा घदनुष्ठेयं तदेव कृतम्, नतु त्वल्लाभाय यत्नः कृत इति भावः ॥२॥ अन्तं फलम् । उद्धृतौ निर्मूलितौ ॥३॥ सीताविषये स्वामिनबिन की शमितिविचार॥ ३-३४ ॥ विस्मयादिति । असम्भावितदर्शनं जातमिति विस्मयः । प्रियस्य दर्शनेन प्रहर्षः ॥ ३५ ॥ अथेति । समय पनुदत समपानुदत ॥ २५॥ इति श्रीमहेश्वरती० श्रीरामायणतरव० पुद्धकाण्डव्याख्यायो सप्तदशोनरशननमः सर्गः ॥ ११ ॥ १॥२॥ अन्नं फलम् ॥ ३॥४॥
॥२४॥
For Private And Personal Use Only