________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू.
॥३४१॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
नियोगं कर्तव्यत्वे हेतुद्वयम् राजा भर्तेति ॥ ११ ॥ अङ्गीकारे हेतुद्वयं भर्तृदेवता भर्तृभक्तिव्रतेति ॥ १२-१४ ॥ ज्ञात्वाऽपि विभीषणागमनं विदित्वा ऽपि । अनेन चिन्तानुवृत्तिरुक्ता ॥ १५ ॥ रावणवधपूर्वकसीतागमेन हर्षः, रावणभवनोषितत्वेन दैन्यं रोपश्च । अत्र रोषो भाविशपथोपयोगित्वादारो
तस्य तद्वचनं श्रुत्वा मैथिली भर्तृदेवता । भर्तृभक्तिव्रता साध्वी तथेति प्रत्यभाषत ॥ १२ ॥ ततः सीतां शिरस्स्नातां युवतीभिरलंकृताम् । महार्हाभिरणोपेतां महार्हाम्बरधारिणीम् ॥ १३ ॥ आरोप्य शिबिकां दीप्तां परार्थ्याम्बरसंवृताम् । रक्षोभिर्बहुभिर्गुप्तामाजहार विभीषणः ॥ १४ ॥ सोऽभिगम्य महात्मानं ज्ञात्वाऽपि ध्यान मास्थितम् । प्रणतश्च प्रहृष्टश्च प्राप्तां सीतां न्यवेदयत् ॥ १५ ॥ तामागतामुपश्रुत्य रक्षोगृहचिरोषिताम् । हर्षो दैन्यं च रोषश्च त्र्यं राघवमाविशत् ॥ १६ ॥ ततः पार्श्वगतं दृष्ट्वा सविमर्श विचारयन् । विभीषणमिदं वाक्यमहृष्टं राघवोऽब्रवीत् ॥१७॥ राक्षसाधिपते सौम्य नित्यं मद्विजये रत । वैदेही सन्निकर्ष म शीघ्रं समुप गच्छतु ॥ १८ ॥ स तद्वचनमाज्ञाय राघवस्य विभीषणः । तूर्णमुत्सारणे यत्नं कारयामास सर्वतः ॥ १९ ॥
पित इति द्रष्टव्यम् ॥ १६ ॥ सविमर्श विचारयन् सवितकें चिन्तयन् । अहृष्टमिति क्रियाविशेषणं विभीषणविशेषणं वा ॥ १७ ॥ १८ ॥ उत्सारणे जन सम्बन्धः ॥ १-१४ ॥ ज्ञात्वाऽपि विभीषणानुगमनं ज्ञात्वाऽपि ॥ १५॥ तामिति । हर्षः रावणवधपूर्वक सीतासमागमेन हर्षः, रावणभवनोषितत्वमेव दैम्परोषयोर्हेतुः । तत्र रोषश्च भाविशपथोपयुक्तत्वादारोपित इति द्रष्टव्यम् ॥ १६ ॥ सावेमर्श सवितर्क विचारयन्निति सम्बन्धः ॥ १७-२० ॥
सतनु महामारते स दृष्ट्वा चारुसर्वाङ्गीयानस्य शोककर्शिताम् । मलोपचितसर्वाङ्गी जटिल कृष्णवाससम् ॥" इत्युक्तेः कथमत्रैवं कथनमिति चेत्, उच्यते - स्वच्छन्देनाङ्गशोधनादान भारते मलो पचितेत्याद्युक्तिः । अत्र तु रामाया तस्य शासत्वेन प्रतिकर्मणा संयुक्तामित्यायुक्तिः । अथवा भारतत्रचनोत्तरार्धे हनुमद्वचनेन मलोपचितसर्वाङ्गी संस्मरतो रामस्य तथैव दर्शनमिति पूर्वमेतादृशीमिति वार्याङ्गीकारेण वाऽविरोधोपपत्तेः ॥ १३ ॥ आरोग्य शिविकां सीतां राक्षसेनोचितैः इति पाठः । बहनोचितैः राजावरोधयानवोचितैः । राक्षसैः वृद्धैरविन्ध्यादिभिः । उक्तं च मारते " ततस्सीतां पुरस्कृत्य " इत्यारभ्य " अविन्ध्यो नाम सुप्राज्ञो वृद्धामात्यो विनियो" इति ॥ १४ ॥
For Private And Personal Use Only
टी.ए.कॉ.
स० [११०
॥ ३४१॥