________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिन्तापारवश्याभिनयः । मेघसङ्काश मित्यनेन सीतानयने कृतत्वरत्वमुच्यते ॥ ६ ॥ दिव्याङ्गरागामिति । अलंकृत्या नयनादेशः उत्तरकालिक परुषभाषणा |ईताप्रतिपादनाय । नहि तादृशदशापन्नां दीनां परुषं भाषितुं युज्यते । तच्च तस्या न परित्यागार्थम्, किंतु चतुर्मुखादिदेवतामुखेन तस्याः पातिव्रत्यं ख्यापयितुम् । माचिरम्, विलम्बो न कार्य इत्यर्थः ॥ ७ ॥ एवमित्यादिश्वोकद्वयमेकान्वयम् । स्वाभिः स्त्रीभिरचोदयत् निजस्त्रीमुखेनाचोदयत् ॥ ८-१०॥
दिव्याङ्गरागां वैदेहीं दिव्याभरणभूषिताम् । इह सीतां शिरस्स्नातामुपस्थापय मा चिरम् ॥ ७ ॥ एवमुक्तस्तु रामेण त्वरमाणो विभीषणः । प्रविश्यान्तःपुरं सीतां स्वाभिः स्त्रीभिरचोदयत् ॥ ८ ॥ दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता । यानमारोह भद्रं ते भर्ता त्वां द्रष्टुमिच्छति ॥ ९ ॥ एवमुक्ता तु वैदेही प्रत्युवाच विभीषणम् । अस्नाता द्रष्टुमिच्छामि भर्तारं राक्षसाधिप ॥ १० ॥ तस्यास्तद्वचनं श्रुत्वा प्रत्युवाच विभीषणः । यदाह राजा भर्ता ते तत्तथा कर्तुमर्हसि ॥ ११ ॥ रामानु०- एवमुक्तस्तु रामेण त्वरमाणो विभीषणः । प्रविश्यान्तःपुरं सीतां स्वाभिः स्त्रीभिरचोदयत् ॥ दिव्याङ्गरागा वैदेदि दिव्याभरणभूषिता । यानमारोह भद्रं ते भर्ता त्वां द्रष्टुमिच्छति ॥ एवमुक्ता तु वैदेही. प्रत्युवाच विभीषणम् ॥ इति पाठक्रमः । भर्ता त्वां द्रष्टुमिच्छतीति स्वाभिः स्त्रीभिरचोदयदिति सम्बन्धः ॥८-१० ॥ तस्या इति । प्रत्युवाच, स्त्रीमुखेनेति शेषः । यथा
लोकापवादो भवेत् । निर्दोषायास्तस्याः परित्यागे महान दोषः स्यादित्येवं कार्यदौस्थ्यात् किं कर्तव्यमिति चिन्तयामासेत्यर्थः ||५||६ ॥ दिव्याङ्गरागां शिरस्स्नाता सीतामुपस्थापयेत्यस्यायमाशयः- यदि सीतामविशोध्यैव ग्रहीष्यामि तदा जना एतादृशदिव्यसुन्दरीं दृष्ट्वा रावणः तूष्णीं तिष्ठेदिति बहुविधापवादप कलङ्काङ्कितचित्तास्सन्तो निष्कलङ्कायां जगज्जनन्यामपि देव्यां किमप्याशङ्केयुरिति मन्वानो जगन्मर्यादास्थापनायावतीर्णः श्रीरामः “ यद्यदाचरति श्रेष्ठस्तत्त देवेतरो जनः " इति न्यायननुसृत्य निष्कल्मषां देवीं स्वयं जानन्नपि लोकापवादनिवृत्तये तस्यां रुषित इव परुषोक्तिं बदन तामत्रिं प्रवेश्य पद्मभवनभवेन्द्र मुखामरगणैस्संस्तुतः प्रार्थितो नित्यशुद्ध देवीमङ्गीकरवाणीति ॥ ७ ॥ ८ ॥ दिव्याङ्गरागेति । भर्ता त्वां द्रष्टुमिच्छतीति स्वाभिः स्त्रीभिरचोदयदिति पूर्वेण
स-स्वामिः श्रीमरवादयत् इति पाठः । स्वामिः खीभिः सरमात्रिजटादिभिः सीतामवादयन् राजनीत्यात्साचादसम्भाषणमिति ज्ञेयम् ॥ ८ ॥
For Private And Personal Use Only