SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsur Gyanmandir www.kobatirth.org रूपं दर्शयति--मुष्टिभिरित्यादिना। श्लोकत्रयमेकान्वयम् । पातेः प्रहारैः । भक्षणः खादनः । लुञ्चनैः उन्मूलनेः । शुष्कमुखीभिः नखैः। दारणः पीडा कपोलताडनैर्वा । लङ्घनैः उत्प्लुत्योपरिपातनः । इतः हस्तैस्ताडनैः । निपात्य भूमौ पातयित्वा मुष्टयादिभिर्हन्तुमिच्छामीत्यन्वयः ॥ ३४-३६ ॥ उक्तमर्थमावश्यकत्वज्ञापनाय पुनरपि सङ्ग्रहेण याचते-एवमिति ॥ ३७॥ एवमुक्तेति । धर्मसहितमिति क्रियाविशेषणम् ॥ ३८ ॥ राजेति । राज संश्रयवश्यानां राजसेवापरवशानाम् । अत एव पराज्ञया कुर्वन्तीना राजचोदितकार्य कुर्वन्तीनाम्, विधेयानां चोदिताकरणे दण्डार्हाणाम्, रावणस्य घातैर्जानुप्रहारैश्च दशनानां च पातनैः । भक्षणैः कर्णनासानां केशानां लुञ्चनैस्तथा ॥३५॥ नखैः शुष्कमुखीभिश्च दारणैर्लङ्घनैर्हतैः । निपात्य हन्तुमिच्छामि तव विप्रियकारिणीः ॥ ३६ ॥ एवंप्रकारैर्बहुभिर्विप्रकारैर्यशस्विनि । हन्तुमिच्छाम्यहं देवि तवेमाः कृतकिल्विषाः ॥३७॥ एवमुक्ता हनुमता वैदेही जनकात्मजा। उवाच धर्मसहितं हनुमन्तं यशस्विनी ॥३८॥ राजसंश्रयवश्यानां कुर्वन्तीनां पराज्ञया । विधेयानां च दासीनां कः कुप्येद्वानरोत्तम ॥३९॥ भाग्यवैषम्ययोगेन पुरादुश्चरितेन च । मयैतत् प्राप्यते सर्व स्वकृतं ह्युपभुज्यते ॥४०॥ प्राप्तव्यं तु दशायोगान्मयैतदिति निश्चितम् । दासीनां रावणस्याहं मर्षयामीह दुर्वला ॥ ४१ ॥ दासीनां दासीभ्यः, कः कुप्येत् ॥ ३९॥ भाग्यवैषम्ययोगेन भाग्यविपर्यययोगेन, भाग्यस्यापरिपक्वतयेत्यर्थः । पुरादुश्चरितेन च पूर्वकृतदुष्कृतेन च, एतत्तर्जनभर्त्सनादिकं प्राप्यते । तत्र हेतुमाइ स्वकृतमिति । हि यस्मात् । स्वकृतमुपभुज्यते स्वकृतकर्मफलं प्राप्यते लोकैः । अतो मयाऽपि भुज्यत इत्यर्थः ॥ १०॥ रावणस्य दासीनाम् एतत्तर्जनादिकं दशायोगात् अवस्थायोगात, अनुभवयोग्यकालसम्बन्धादिति यावत् । प्राप्तव्यमिति मया निश्चितम् । दुर्बला पूर्वमेतादृशापनिवारककर्मकरणाशक्ता । अतोऽहमिह राक्षसीविषये मर्षयामीति सम्बन्धः । दुर्बला कृपापरवशा वा। हते रावणे शुष्कमुखीभिः नवैः । लङ्कनैः उत्प्लुत्यापतनैः ॥ ३६॥ एवमिति श्लोको भिन्नं वाक्यम् । राजसंश्रयवझ्याना राजसंश्रयापरवशानाम राजसंश्रयो राजसेवा, राजसेवापराणामित्यर्थः ॥ ३७-४० ॥ प्राप्तव्यमिति । इशायोग, नपुंसकत्वमार्षम् । अयं दशायोगः एतादृशदुरवस्थाविशेषः म प्राप्तव्य इति निश्चितः निश्चयः कृतः। कुतः 'दुर्बला पूर्वमेतादृशाना निराकरणकर्मकरणाशक्ता अतः रावणस्य राक्षसीनामेतत्तर्जनादिकं मर्षयामि, असहमित्यर्थः । दशायोगादिति पाठे For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy