________________
Acharya Shri Kalassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
%
%
%
इति श्रुतेः । त्रिषु लोकेषु राज्यं त्रिलोकविषयराजत्वम् । नैतहति भाषितुम् । हिरण्याद्यतत्सर्वमपि प्रियाख्यानसमत्वेन भाषितुं नाईतीत्यर्थः ॥ २१॥ प्रमुखे अग्रे ॥२२॥ प्रतिप्रियवचनं न पश्यामीत्यस्योत्तरमाइ-भर्तुरिति । एवंविधं स्निग्धं वाक्यं भाषितुं त्वमेदाईसि नान्या । अनेन सर्वोत्तरं प्रीतिप्रियवचनं मह्यं दत्तमित्युक्तं भवति ॥२३॥ प्रियाख्यानसदृशं प्रदेयं वस्तु नास्तीत्यस्योत्तरमाह-तवेति । एतत् प्रत्यभिनन्दनं न पश्या मीत्येतत् । सारवत् प्रत्यभिनन्दनवचनराहित्यकथनेन मद्वचनस्य निरवधिकपीतिजनकत्वकथनान्महातात्पर्यवत् । स्निग्धं मयि प्रीतिपुरस्सरम् ।
एवमुक्तस्तु वैदेह्या प्रत्युवाच प्लवङ्गमः । गृहीतप्राञ्जलिर्वाक्यं सीतायाः प्रमुखे स्थितः ॥ २२ ॥ भर्तुः प्रियहिते युक्ते भर्तुविजयकांक्षिणि । स्निग्धमेवंविधं वाक्यं त्वमेवाईसि भाषितुम् ॥२३॥ तवैतद्वचनं सौम्ये सारवत् स्निग्धमेव च । रत्नौधाद्विविधाच्चापि देवराज्याद्विशिष्यते ॥ २४ ॥ अर्थतश्च मया प्राप्ता देवराज्यादयो गुणाः । हतशत्रु विजयिनं रामं पश्यामि सुस्थितम् ॥२५॥ तस्य तद्वचनं श्रुत्वा मैथिली जनकात्मजा । ततः शुभतरं वाक्यमुवाच
पवनात्मजम् ॥ २६ ॥ अतिलक्षणसम्पन्नं माधुर्यगुणभूषितम् । बुद्धया ह्यष्टाङ्गया युक्तं त्वमेवार्हसि भाषितुम् ॥२७॥ एतद्वचनश्रवणेनैव मया सर्वोत्तरं वस्तु समुपलब्धमिति भावः॥२४॥ पूर्वमेव लब्धदेवराज्यादिकस्य तत्पदानं निरर्थकमित्याशयेनाह-अर्थत इति । राम विजयिनं पश्यामीति यत् अस्मात् अर्थतः प्रयोजनात् देवराज्यादयो गुणाः उत्कर्षाः प्राप्ताः । रामविजयदर्शनमेव राज्यादिकमित्यर्थः ॥२५॥२६॥ नानृग्वेदेत्यादिना राम इव स्वयमपि तद्वाक्यसोष्ठवं प्रशंसति-अतीति । अतिलक्षणसम्पन्नम् आकांक्षायोग्यतासन्निधिमत्पदवत्त्वरूपवाक्यलक्षणसम्प त्रम् । “बहुव्याहरताऽनेन न किंचिदपशब्दितम्" इत्युक्तशब्दसाधुत्वसम्पत्रम् । माधुर्यगुणभूषितम् “संथवे मधुरं वाक्यम्" इत्युक्तरीत्या श्रवणमात्रेण स्निग्धं स्नहोपेतम्, अशक्यप्रतिपादनमित्येवरूप त्वमेव भाषितुमईसि नान्या, अतस्त्वया सर्वोत्तरं यदिदं वचनमुक्तं तदेव परमं प्रत्यभिनन्दनामिति शेषः ॥२३॥ प्रियारूपानसदृशं प्रदेयं नास्तीत्यस्पोत्तरमाह-लवेति । एतद्वचनं निस्समाधिकम् एतद्वचनश्रवणेनैव मया सर्वोत्तर वस्तु लम्धमिति भावः ॥ २४ ॥ विजयिनं राम श्यामीति यत् अनेनेवार्यतः परमार्थतो देवराज्यादयो गुणाः श्रेयांसि प्राप्ता एवेत्यर्थः ॥२५॥२६॥ अतिलक्षणसम्पन्नम् आकांक्षायोग्यतासन्निधिमत्पदवत्त्वरूषवाक्य लक्षणसम्पन्नम, माधुर्यगुणभूषितं श्रवणमात्रेणानन्दजनकत्वं माधुर्यम् । अष्टानया“ग्रहणं धारण चैव स्मरणं प्रतिपादनमा कहोऽपोहोऽर्थ विज्ञानं तस्वज्ञानंचधीगुणा"
॥
For Private And Personal Use Only