________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
P3
स्तब्धा सती तूष्णीमास्तेत्यर्थः॥१॥सौम्यं निजदर्शनेन विकसितम् ॥५-९॥ रामसन्देशवाक्यमाह-प्रियमाख्यामीत्यादिश्लोकद्वयमेकान्वयम् हे देवि ! ते प्रियमाख्यामि त्वां तु भूयः भूयिष्ठम्, सभाजये प्रीणये । धर्मज्ञे पातिव्रत्यधर्मज्ञे ! त्वं दिएचा जीवसि । अन्यथा मम जयो व्यर्थ एव स्यादिति भावः । मम जयेन मत्पराक्रमेण, नः संयुगे नयो लब्धः । गतव्यथा सती स्वस्था भवति योजना ॥ १० ॥१५॥ हे सीते ! तव निर्जये।
सौम्यं दृष्ट्वा मुखं तस्या हनुमान् प्लवगोत्तमः। रामस्य वचनं सर्वमाख्यातमुपचक्रमे ॥५॥वैदेहि कुशली रामः सहसुग्रीवलक्ष्मणः। विभीषणसहायश्च हरीणां सहितो बलैः ॥६॥ कुशलं चाह सिद्धार्थो हतशत्रुररिन्दमः॥७॥ विभीषणसहायेन रामेण हरिभिः सह । निहतो रावणो देवि लक्ष्मणस्य नयेन च ॥ ८॥ दृष्ट्वा तु कुशलं रामो वीरस्त्वां रघुनन्दनः। अब्रवीत् परमप्रीतः कृतार्थेनान्तरात्मना ॥९॥ प्रियमाख्यामिते देवि त्वां तुभूयः सभाजये। दिष्टया जीवसि धर्मज्ञे जयेन मम संयुमे ॥१०॥ [तव प्रभावाद्धर्मज्ञे महान् रामेण संयुगे। लब्धो नो विजयः सीते स्वस्था भव गतव्यथा। रावणश्च हतः शत्रुर्लङ्का चेयं वशे स्थिता ॥११॥ मया ह्यलब्धनिद्रण दृढेन
तव निर्जये । प्रतिज्ञैषा विनिस्तीर्णा बद्धा सेतुं महोदधौ ॥ १२ ॥ शत्रुहस्तात्तव विमोचने । दृढेन एकाग्रचित्तेन । अत एव अलन्धनिद्रेण नया महोदधौ सेतुं बहा, एपा प्रतिज्ञा रावणं हनिष्यामीति प्रतिज्ञा, विनि । कुशलं पृष्ट्वा रामस्वामब्रवीदिति सम्बन्धः ॥९॥ वचनप्रकारमेवाह-पियमाख्यामीत्यादि । प्रियमाख्यामीत्यारभ्य-अयं चाभ्येति संहृष्टस्त्वदर्शनसमुत्तुकः इत्ये | तदन्तं रामसन्देशवाक्यम् । देवि ! ते प्रियमाल्यामि त्वा तु भूयः भूयिष्ठम् । सभाजये प्रीणयामि।मम जयेन हेतुना मम जयं निश्रित्यैव जीवसीत्यर्थः । अत पवनः अस्माभिः संयुगे विजयो लब्धः स्वम्था भवेति योजना । यद्वा मम जयेन मत्पराक्रमेण जयो लन्धः, स्वस्था भवेति सम्बन्धः ॥१०॥११॥ तव निर्जये शत्रुहस्तात्तव शविमोचने दृढेन एकाग्रचित्तेन अत एवालब्धनिद्रेण मया महोदधौ सेतुं बद्ध्वा एषा प्रतिज्ञा रावणं हनिष्यामीत्येवंरूपा विनिस्तीर्णेति सम्बन्धः ॥ १२ ॥ -न पोनरक्त्यम् ॥४॥ [नव प्रभावात त्वत्पातित्रत्वमाहात्म्यात् । तस्तुतिकालत्वादेवमुक्तिः । तव त्वत्सम्बन्धिना रामेण । प्रभावात् स्वसामर्यात् । अयं विगयो लब्ध इति वा । लब्धोऽयं विजय इति पाठः ॥११
For Private And Personal Use Only