________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
विशीर्णः ॥ ८३-८५ ॥ घिमिति । यस्या मम हृदयं न फलते न स्फुटति तादृशीं मां पिगित्यन्वयः ॥८६॥ अवस्कन्नहृदया विलीनहृदया ॥८॥ कश्मलेन अभिहता मूञ्छिता । सन्ना कृशा ॥८८॥८९॥ नेत्यादिश्लोकद्वयमेकान्वयम् । दशाविभागपर्याये दशाना बाल्यकौमारयौवनवार्घकाद्यवस्थानां प्रियामिवोपगुह्य त्वं शेषे समरमेदिनीम् । अप्रियामिव कस्माच्च मां नेच्छस्यभिभाषितुम् ॥ ८५ ॥ धिगस्तु हृदयं यस्या ममेदं न सहस्रधा। त्वयि पञ्चत्वमापन्ने फलते शोकपीडितम् ॥ ८६॥ इत्येवं विलपन्त्येव बाष्पव्याकुल लोचना । स्नेहावस्कन्नहृदया देवी मोहमुपागमत् ॥ ८७॥ कश्मलाभिहता सन्ना बभौ सा रावणोरसि । सन्ध्या नुरके जलदे दीप्ता विद्युदिवासिते ॥८८॥ तथागतां समुत्पत्य सपत्न्यस्ता भृशातुराः । पर्यवस्थापयामासू रुदन्त्यो रुदतीं भृशम् ॥ ८९॥ न ते सुविदिता देवि लोकानां स्थितिरध्रुवा । दशाविभागपर्याये राज्ञां चञ्चलया श्रिया ॥ ९॥ इत्येवमुच्यमाना सा सशब्दं प्ररुरोद ह । स्नापयन्ती त्वभिमुखौ स्तनावस्राम्बुविस्रवैः ॥ ९॥ एतस्मिन्नन्तरे रामो विभीषणमुवाच ह । संस्कारः क्रियतां भ्रातुः स्त्रियश्चैता निवर्तय ॥ ९२॥तंप्रश्रितस्ततो राम
श्रुतवाक्यो विभीषणः । विमृश्य बुद्धया धर्मज्ञो धर्मार्थसहितं वचः । रामस्यैवानुवृत्त्यर्थमुत्तरं प्रत्यभाषत ॥९३॥ विभागस्य भेदस्य पर्याये प्राप्तौ विषये, लोकानामधुवा स्थितिः राज्ञां चञ्चलया श्रिया सह ते स्वया सुविदिता नेति काकुः, सुविदितेवेत्यर्थः । लोकानां स्थितिरध्रवेति राज्ञां श्रीश्चञ्चलेति च त्वया सुविदितैवेत्यर्थः । उच्यमाना, बन्धुवृद्धादिभिरिति शेषः । अभिमुखौ उन्नती ॥९०-९२ ॥ तमित्यादि। प्रश्रितः विनयान्वितः । विमृश्य "एतस्य यत् प्रेतगतस्य कृत्यं तत्कर्तुमिच्छामि तव प्रसादात्" इत्युक्तमङ्गीकृतं विचिन्त्येत्यर्थः । रामस्यैवानुवृत्त्यर्थ यस्या मम हृदयं शोकपीडितं सत् न फलते न स्फुटति तो मां धिगित्यर्थः ॥ ८६ ॥ ८७ ॥ कश्मलं मूर्छा ॥ ८८ ॥ ८९॥ नेत्यादिलोकद्वयमेकं वाक्यम् । श्रियेति सहाथै तृतीया। दशाविभागपर्याये दशानामवस्थानां विभागो भेदः तस्य पर्याये प्राप्तो सति लोकानां स्थितिः राज्ञो चञ्चलयाश्रिया सह अध्रुवोति त्वया नमुविदिता किम् ? विदितैव । राजश्री लोकस्थितिश्च अस्थिरेति जानाम्यवेत्यर्थः ॥ ९॥ इत्येवमिति । अभिमुखौ उन्नतौ ॥ ९१ ॥ ९२ ॥ तं श्रुतवाक्यम् ।
२३३
For Private And Personal Use Only