________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
| रिति ॥ ४८ ॥ त्रैलोक्येत्यादि इतप्रियेत्यन्तं श्लोकाष्टकमेकं वाक्यम् । एवंभूतं भर्तारं दृष्ड्डा या इमं देवं धारयामि साऽहं स्थिराऽस्मि वज्रसारमय्यस्मि कथमन्यथा न शीर्येदिति भावः । मदिति त्रैलोक्यवसुविशेषणम् । यद्वा त्रैलोक्योद्वेगदं महद्वसु महत् यथा भवति तथा त्रैलोक्योद्वेगदमिति वा । उद्वेगो भयसम्भ्रमः । शङ्करस्य क्षेप्तारं कैलासचलनद्वारा ॥ ४९ ॥ ५० ॥ स्वयूथाः स्वबन्धवः निवातकवचा नाम केचनासुराः । तेषां संग्रहीतारं तैः
त्रैलोक्यवभोक्तारं त्रैलोक्योद्वेगदं महत् । जेतारं लोकपालानां क्षेप्तारं शङ्करस्य च ॥ ४९ ॥ दृप्तानां निग्रही तारमाविष्कृतपराक्रमम् । लोकक्षोभयितारं च नादैर्भूतविराविणम् ॥ ५० ॥ ओजसा दृप्तवाक्यानां वक्तारं रिपु सन्निधौ । स्वयूथभृत्यवर्गाणां गोप्तारं भीमकर्मणाम् ॥ ५१ ॥ हन्तारं दानवेन्द्राणां यक्षाणां च सहस्रशः । निवातकवचानां च सङ्ग्रहीतारमीश्वरम् ॥ ५२ ॥ नैकयज्ञविलोप्तारं त्रातारं स्वजनस्य च । धर्मव्यवस्थाभेत्तारं मायास्रष्टारमाहवे ॥५३॥ देवासुरनुकन्यानामाहर्तारं ततस्ततः । शत्रुस्त्रीशोकदातारं नेतारं स्वजनस्य च ॥ ५४ ॥ लङ्काद्वीपस्य गोप्तारं कर्तारं भीमकर्मणाम् । अस्माकं कामभोगानां दातारं रथिनां वरम् ॥५५ ॥ एवं प्रभावं भर्तारं दृष्ट्वा रामेण पातितम् । स्थिराऽस्मि या देहमिमं धारयामि हतप्रिया ॥ ५६ ॥ शयनेषु महार्हेषु शयित्वा राक्षसेश्वर । इह कस्मात् प्रसुप्तोऽसि धरण्यां रेणुपाटलः ॥ ५७ ॥
Acharya Shri Kalassagarsuri Gyanmandir
सख्यकृतमित्यर्थः ॥ ५१ ॥ ५२ ॥ स्वजनस्य स्वाश्रितजनस्य । धर्मव्यवस्था आचारव्यवस्था । यज्ञकर्मभेतृत्वकथनेनातीव स्वतन्त्रत्वमुक्तम् ॥५३॥ कन्यानामिति स्त्रीमात्रमुच्यते । स्वजनस्य नेतारमिति । पूर्वत्रानिष्टनिवर्तकत्वमुक्तम्, अत्रेष्टप्रापकत्वम् ॥ ५४ ॥ भीमकर्मणां स्वशिरोहवनादी वसूनि रत्नानि " रत्ने धने वसु " इत्यमरः । महत् अत्यर्थम् । ओजसा दर्पेण । भीमकर्मणां नृशंसानाम् ॥ ४१-५५ ॥ एवंप्रभावं त्वां दृष्ट्वा इतप्रिया इमं देहं धारयामि अतः स्थिरा कठिनहृदयाऽस्मीति सम्बन्धः ॥ ५६-६३ ॥
For Private And Personal Use Only