SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ Sh Maha Ja Aradhana Kendra Acharya Shri Kalassagarsen Gyanmandir चा.रा.भ. ॥३३०॥ टी.यु.का. मरणाभावेऽपि इदानीमकार्यकरत्वादेवमुक्तम् । असम्बुद्धं पूर्वमचिन्तितम् ॥ ४२ ॥ खिग्धेत्यादि साघश्लोकचतुष्टयमेकान्वयम् । प्रांशुशैलः उन्नतशैलः। अङ्गदेवैडूर्य वैडूर्यमयाङ्गदमिति केयूराझेदः। यच्छरीरं भाति आलिङ्गनयोग्यमभूत् । तदेव शरीरं दुर्लभसंस्पर्श सत् पुनः परिष्वक्तुं न शक्यते॥४३-१५॥ स्निग्धेन्द्रनीलनीलं तु प्रांशुशैलोपमं महत्। केयूराङ्गदवैडूर्यमुक्तादामस्रगुज्ज्वलम् ॥ ४३ ॥ कान्तं विहारेष्वधिक दीप्तं सङ्घामभूमिषु । भात्याभरणभाभिर्यद्विद्युद्भिरिव तोयदः ॥४४॥ तदेवाद्य शरीरं ते तीक्ष्णैर्नेकैः शरैश्चितम् । पुनर्दुर्लभसंस्पर्श परिष्वक्तुं न शक्यते ॥४५॥ श्वाविधः शललैर्यद्वाणैर्लनिरन्तरम् । स्वर्पितैर्मर्मसु भृशं सञ्छिन्नस्नायुबन्धनम् । क्षितौ निपतितं राजन श्यावं रुधिरसच्छवि ॥४६॥ वजाहाराभिहतो विकीर्ण इव पर्वतः ॥४७॥ हा स्वप्नः सत्यमेवेदं त्वं रामेण कथं हतः । त्वं मृत्योरपि मृत्युः स्याः कथं मृत्युवशं गतः॥४८॥ दुर्लभसंस्पर्शत्वमुपपादयति-श्वाविध इत्यादिना । श्वाविधः शल्यमृगस्य, शललैः तल्लोमभिः, यत् यथा । कण्टकाकारश्वाविल्लोमतुल्यैरिति शर विशेषणम् । मर्मसु स्वर्पितैः क्षिप्तः । तत्रैव मर्मसु निरन्तरं लग्नेरिति योजना । श्यावं कपिशवर्णम् । “श्वावित्तु शल्यस्तल्लोनि शलली शललं शलम् ।" "श्यावः स्यात्कपिशः" इत्युभयत्राप्यमरः। सायवः धमन्यः । रुधिरसच्छवि रुधिरतुल्यकान्ति । स्वकान्ति विहाय रुधिरकृतकान्त्यन्तरमित्यर्थः॥४६॥ वजेत्यर्षम् । असीति शेपः॥४७॥ इति । इदं ते मरणं स्वमःवनानुभवाविषयः सत्यमेव, नात्र संशयः। तत्र हेतुमाह त्वमिति । तत्रापि हेतुमाह त्वं मृत्यो तदेवेत्यादिसालोकद्वयमेकं वाक्यम् । बाणेर्लग्नः निरन्तरमित्युत्तरशेषः । तदेव पूर्वोक्तविशेषणविशिष्टम् । श्वाविधः शल्यकस्य शलले रोमभिरिव नैकैः शरै श्चितं व्याप्तं ते शरीरं परिष्वक्तुं न शक्यते इति सम्बन्धः । “ श्वाविनु शल्यस्तल्लोम्नि शलली शललं शलम्" इत्युभयत्राप्यमरः । बाणेर्लप्रेरित्यादि । मर्मसु सर्वतो लग्नाणेनिरन्तरं नीरन्धम, संचिन्नस्नायुबन्धन स्नायवः अस्थिवन्धका धमनीविशेषाः, रुधिरसच्छवि रक्तकान्ति ॥ ४५ ॥४१॥ वचमहारामिहता विकीर्णः पर्वत इव क्षितो निपतितं ते शरीरमित्यनुकर्षः । पश्यामीति शेषः ॥ ४७ ॥४८॥ स-मुक्ताहारत्रगुणवलं मुक्तानां हाराः, सजः इतरा मणिमथ्यः तामिस्माबलम् । यद्वा मुक्तानां हारः परस्परं सहज युद्ध मिव स यास ताः सजो मुक्कामालाः तदुग्गलम " हारो मुक्तावली युद्ध ॥३३०॥ हति विधः ॥१३॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy