________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्वयम् । सुत्वक् त्रिग्धत्वक् । समुन्नसं समुन्नतनासिकम् । कान्तिः प्रभा । श्रीः सौन्दर्यम् । द्युतिः तेजः । किरीटकूटोज्ज्वलितं शिखरतुल्यकिरीटविरा जितम् । ताम्रास्यं रक्ताधरमित्यर्थः । चारु सुन्दरं तव यद्वक्रं मदव्याकुललोलाक्षं भूत्वा अभ्राजत, तदेवेदं वक्रमद्य न भ्राजते ॥ ३५-३७ ॥ अप्रकाश
विविधस्रग्धरं चारु वल्गुस्मितकथं शुभम् । तदेवाद्य तवें ह्निवक्रं न भ्राजते प्रभो ॥ ३७ ॥ रामसायकनिर्भिन्नं सिक्तं रुधिरविस्रवैः । विशीर्णमेदोमस्तिष्कं रूक्षं स्यन्दनरेणुभिः ॥ ३८ ॥ हा पश्चिमा मे सम्प्राप्ता दशा वैधव्य कारिणी । या मयाssसीन्न सम्बुद्धा कदाचिदपि मन्दया ॥ ३९ ॥ पिता दानवराजो मे भर्ता मे राक्षस्तेश्वरः । पुत्रो मे शक्रनिर्जेता इत्येवं गर्विता भृशम् ॥ ४० ॥ दृप्तारिमर्दनाः शूराः प्रख्यातबलपौरुषाः । अकुतश्चिद्भया नाथा ममेत्यासीन्मतिर्दृढा ॥४१॥ तेषामेवंप्रभावानां युष्माकं राक्षसर्षभ । कथं भयमसम्बुद्धं मानुषादिदमागतम् ॥ ४२ ॥ निमित्तमाह-रामेति । विस्रवैः प्रवाहैः । मेदः वसा । मस्तिष्कं मांसविशेषः ॥ ३८ ॥ हेति । मे वैधव्यकारिणी ते पश्चिमावस्था मृतिः सम्प्राप्ता ॥ ३९ ॥ अस्थिरस्य देहस्य विनाशः कुतो न सम्बुद्ध इत्यत्राह पितेति । दानवराजः मयः ॥ ४० ॥ ४१ ॥ तेषामिति । तेषु युष्मास्वेवम्प्रभावेष्वित्यर्थः । मयस्य वाक्यम् । समुन्द्रसम् उन्नतनासम् । कीर्तिश्रीद्युतिभिस्तुल्यं कीर्त्या प्रसादेन । "प्रसादयशसोः कीर्तिः” इति विश्वः । श्रिया शोभया, त्या दीत्या च क्रमेणेन्दुपद्म दिवाकरैस्तुल्यम् । किरीटकूटोजवलितं किरीटकूटः किरीटामं तेन उज्वलितम् । ताम्रास्यं ताम्रोष्ठं ते यद्वकं पानभूमिषु मदव्याकुललोलाक्षं भूत्वा अभ्राजत | तदेवाद्य व रामसायकनिर्भिन्नम् अत एव विकीर्णमेदोमस्तिष्कं मेदो वसा, मस्तिष्कं शिरः, मेदोयुक्तशिरः इत्यर्थः । एतादृशं सत् न भ्राजत इति सम्बन्धः ।। ३५-३८ ॥ हेति । न संबुद्धा न विचारिता । मन्दया मन्दभाग्यया ॥ ३९-४१ ॥ तेषामिति । असम्बुद्धम् असम्भावितम् ॥ ४२-४४ ॥
स० [ननु श्रीमन्महाभारते वनपर्वणि "शरीरधातवो ह्यस्य मांसं रुधिरमेव च । नेशुर्ब्रह्मास्त्रनिर्दग्वं न च ममाप्यदृश्यत ॥” इति रावण शरीरमस्मनोऽपदर्शनोतेः कथमेवं तच्छिरोवनमिति चेन; लाख निर्दग्धं मांसं रुधिर चेत्येते अस्य शरीरधातवो नेशुः अदर्शनं गताः । श्राखदाहे देहस्य मस्म दृश्येत कथं शरीरस्य दर्शनमित्यत आह न चेति । भस्मापि मस्म तु न दृश्यते विचित्रोऽयं दाह इति भारतस्यैतदर्थ कताङ्गीकारेणाविरोधोपपत्तेः । तथा चोक्तमाचार्यैः- “याणेन वनसदृशेन स भित्रको रक्तं वमन् न्यपतदाशु महाविमानात" इति । तथैव च पानोत्तरखण्डे "स गतासुर्महादैत्यः पपात च ममार च इत्यादि ॥ ३८ ॥
For Private And Personal Use Only