SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अकस्मान्निर्हेतुकं सीतामुद्दिश्य अभिकामोऽसि अभिलाप्यसि, तां प्रति त्वदभिलाषः अयुक्त इत्यर्थः ॥ २० ॥ अयुक्ततामेवाह- अरुन्धत्या इति । ॥ विशिष्टाम् उत्कृष्टाम् । मान्यामित्यनेन न केवलमरुन्धत्यादिवत् पातिव्रत्यमात्रम्, किंतु मातृत्वं चेत्युच्यते । असदृशम् अनुचितम् ॥ २१ ॥ सा पतिव्रता चेत् किमर्थ न दग्धवतीत्यत्राह वसुधाया इत्यादिसार्धश्लोकद्वयेन । वसुधायाश्च वसुधाम् अत्यन्तक्षमावतीमित्यर्थः । श्रीमित्यत्र अकस्माच्चाभिकामोऽसि सीतां राक्षसपुङ्गव । ऐश्वर्यस्य विनाशाय देहस्य स्वजनस्य च ॥ २० ॥ अरुन्धत्या विशिष्टां तां रोहिण्याश्चापि दुर्मते । सीतां धर्षयता मान्यां त्वया ह्यसदृशं कृतम् ॥ २१ ॥ वसुधायाश्च वसुर्धा श्रियः श्री भर्तृवत्सलाम् । सीतां सर्वानवद्याङ्गीमरण्ये विजने शुभाम् ॥ २२ ॥ आनयित्वा तु तां दीनां छद्मना ss स्वदूषण । अप्राप्य चैव तं कामं मैथिलीसङ्गमे कृतम् । पतिव्रतायास्तपसा नूनं दग्धोऽसि मे प्रभो ॥ २३ ॥ तदैव यन्न दग्धस्त्वं धर्षयंस्तनुमध्यमाम् । देवा बिभ्यति ते सर्वे सेन्द्राः साग्निपुरोगमाः ॥ २४ ॥ इयङभाव आर्षः । सर्वसम्पदधिष्ठात्रीमित्यर्थः । भर्तृवत्सलां पतिव्रताम् । सर्वानवद्याङ्गीम् अनवद्यसर्वाङ्गीम् । अरण्ये विजने स्थितामिति शेषः । दीनां त्वदनभिलाषिणीमित्यर्थः । छद्मना मारीचमुखेन आनयित्वा । तं पूर्वमुक्तम् । पतिव्रतायास्तस्यास्तपसा दग्धोऽसि । मे प्रभो इत्यनेन अस्य सर्वस्य मद्दौर्भाग्यमेव निमित्तमिति द्योत्यते । आत्मस्वदूषणेत्यनेन निजस्वभूताया मम त्यागे त्वदूषणमेव हेतुः, न त्वस्मत्सौन्दर्यहानिरित्युच्यते ॥ २२ ॥ २३ ॥ रामानु० - अरण्ये विजने शुभामित्यस्यानन्तरम्, आनयित्वा तु तां दीनां छद्मनाऽऽत्मस्वदूषण । अप्राप्य चैव तं कामं मैथिलीसङ्गमे कृतम् । पतिव्रतायाः सहसा नूनं दग्धोऽसि मे प्रभो ॥ इत्येवं पाठक्रमः । अन्ययापाठस्तु लेखकममादकृतः ॥ २२॥२३॥ तदैवेति । तनुमध्यमां धर्षयन् सन् त्वं तदैव न दग्ध इति यत् तेन माहात्म्येन अकस्मादिति । अभिकामः अभिलषितवान् ॥ २० ॥ २१ ॥ वसुधाया अपि वसुधां क्षमावतां निदर्शनभूतायाः भूमेरपि दृष्टान्तभूमिमित्यर्थः । श्रियः श्री सर्वसौभाग्ययुक्तानां दृष्टान्तभूतायाः श्रियोऽपि दृष्टान्तभूमिमित्यर्थः ॥ २२ ॥ आत्मस्वदूषण आत्मीयदूषण ! ॥ २३ ॥ तनुमध्यमां धर्षयन् तदैव धर्षणसमये न दग्ध इति यव तेन माहात्म्येन देवा अपि विभ्यतीति सम्बन्धः ॥ २४ ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy