________________
Shri Mahavir Jain Aradhana Kendra
वा. रा. भू. ॥३२८॥
www.kobatirth.org
यथापूर्वमकल्पयत् " इति श्रुतेः । धाता स्थितिकर्ता । सा च स्थितिरनेकरूपा जगद्विविधकरणेन । “दुधाञ् धारणपोषणयोः " इति धातोः धारणं प्रशासनाधीनलोक त्वम् ।" एतस्य वा अक्षरस्य प्रशासने " इत्यादिश्रुतेः । एवं कारणस्वरूपमुपास्यं तदुपयुक्ता गुणाश्वोक्ताः । अथ दिव्यमङ्गलविग्रहयोगमाह - शङ्खचक्रगदाधर इति । | अनेन उपास्यत्वानुगुणशरणागतविरोधिनिरसन जागरूकत्वमुक्तम् । श्रीवत्सवक्षाः श्रीवत्स कौस्तुभादीनां नित्यत्वाद्भुद्रादिवैलक्षण्यमुक्तम् । नित्यश्रीरिति । नित्या अनपायिनी श्रीर्यस्य सः । अत्र विग्रहनित्यत्वमेवोक्तम्, स्वरूपनित्यत्वस्य साधारणप्राप्तत्वात् । नित्यैवैषा जगन्मातेति यावत् । श्रीसंबन्धादुत्तेजितपराभिभवनसामर्थ्यमाह-अजय्य इति । "अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा" इति ह्युक्तम् । अजम्यः उपासकव्यतिरिक्तैर्जेतुमशक्यः । अजय्यः “अमवृष्यश्च सङ्ग्रामे सेन्द्रैरपि सुरासुरैः" इत्याद्युक्तरीत्या
मानुषं वपुरास्थाय विष्णुः सत्यपराक्रमः । सर्वैः परिवृतो देवैर्वानरत्वमुपागतैः ॥ १६ ॥ सर्वलोकेश्वरः साक्षाल्लोकानां हितकाम्यया । सराक्षसपरीवारं हतवांस्त्वां महाद्युतिः ॥ १७ ॥ इन्द्रियाणि पुराजित्वा जितं त्रिभुवनं त्वया । स्मरद्भिरिव तद्वैरमिन्द्रियैरेव निर्जितः ॥ १८ ॥ क्रियतामविरोधश्च राघवेणेति यन्मया । उच्यमानो न गृह्णासि तस्येयं व्युष्टिरागता ॥ १९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
| जेतुमशक्यः । शाश्वतः त्रिविधपरिच्छेदरहितः विकारशून्यश्व । ध्रुवः अप्रकम्प्पः । अत्र धातेति रूढया विशेषणनिर्देशः । “अनादिनिधनो धाता " इति सहस्रनामपाठात् । नित्यश्रीरिति च ॥ १५ ॥ एवंभूतस्य परमात्मनः किमर्थमेवं व्यापार इत्यत्राह द्वाभ्याम् - मानुषमित्यादि । सर्वलोकेश्वरः सर्वलोकानां नियन्ता अनिष्ट निवृत्तीष्टप्रापणयोः कर्ता । विष्णुः विष्णुसकाशादविनाशित्ववरं परिहर्तुं मानुषं वपुः आस्थाय परिगृह्य, साक्षात् अव्यवधानेन, लोकानां हितकाम्यया लोकहितेच्छया सर्वलोकविरोधिनं त्वां हतवान् । व्यक्तमित्यत्रानुषज्यते ॥ १६ ॥ १७ ॥ त्वदोषकृत एवायं वध इत्याह- इन्द्रियाणीति ॥ १८ ॥ एवं सर्वज्ञा त्वं पूर्व किमिति नोक्तवतीत्यत्राह क्रियतामिति । न गृह्णासि नागृहाः । व्युष्टिः फलम् । “व्युष्टिः फले समृद्धौ च " इत्यमरः ॥ १९ ॥ मशक्यः । महायोगित्वादिविशेषणविशिष्टो यो विष्णुस्स एव रघुनाथ इत्यर्थः ॥ १४ ॥ १५ ॥ तस्य सर्वेश्वरस्य कथं मानुषतया प्रतिभानम्, कथं च वानरेस्सह संवासः, अवाप्त समस्त कामस्य रावणहनने वा किं प्रयोजनम् ? इत्याशङ्कय क्रमेणोत्तराण्याह-मानुषं वपुरास्थायेत्यादिश्लोकद्वयेन ॥ १६ ॥ १७ ॥ लोकान्तर्भूतस्य । रावणस्य हनने सर्वलोकेश्वरस्य रामस्य वैषम्यनैर्नृण्ये स्यातामित्याशङ्कायां स्वकृतकर्मवशादेव स्वस्थ नाशाद्रामस्थ वैषम्यनैर्वृत्ये न स्त इत्याशयेनाह इन्द्रिया |णीति ॥ १८ ॥ क्रियतामिति । व्युष्टिः समृद्धिः " व्युष्टिः फले समृद्धो च " इत्यमरः ॥ १९ ॥
For Private And Personal Use Only
टो.यु.कां. स० ११४
॥३२८॥