SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir दशमीवहन्ता रामः । महायोगी महासन्नहनः आश्रितत्राणसन्नाहथान् । महायोगी विविधविचित्रजगन्निर्माणोपायचतुरः। महायोगी "बहु स्पा प्रजायेयेति" इत्यायुक्त बहुभवनसङ्कल्पवान् । “सोऽभिध्याय शरीरात्स्वात्सिसक्षुर्विविधाः प्रजाः" इति मनुस्मरणात् । महायोगी जगन्निर्माणोपयुक्तपकतिपुरुषकारकर्मसंसर्गवान् । महायोगी शरणागतरक्षणादिष्वसञ्चाल्ययुक्तिमान् । “योगः सत्रहनोपायध्यानसङ्गतियुक्तिषु " इत्यमरः । परमात्मा चेतनाचेतनशरीरः । सकलशरीरत्वप्रसक्तदोषासंस्पर्शमाह सनातन इति । अनादिमध्यनिधनः आदिमध्यान्तशून्यः । महतः परमो महान् । “अणोरणीयान् महतो महीयान् " इत्याद्युक्तपरममहत्ववान् ॥ १४॥ स्थानविशे, षेणापि परमत्वमाह-तमस इति । तमसः प्राकृतमण्डलस्य, परमः परस्तादप्राकृते वैकुण्ठे विद्यमानः। “आदित्यवर्ण तमसः परस्तात्" "आदित्य वर्ण तमसस्तु पारे” इति श्रुतेः । सर्वत्र व्याप्तस्य कथं तत्रावस्थानमित्याशङ्कय विग्रहद्वारेत्याह शङ्ग्रेत्यादिना । सदा शङ्खचक्रधारणप्रयोजनमाह तमसः परमो धाता शङ्खचक्रगदाधरः। श्रीवत्सवक्षा नित्यश्रीरजय्यः शाश्वतो ध्रुवः ॥ १५॥ धातेति । धाता पोषकः । “दुधाभ धारणपोषणयोः" इत्यस्मात्तृच । सर्वदा रक्षणार्थमायुधधारणमित्यर्थः । तथोक्तमभियुक्तैः-"पातु प्रणतरक्षायां । विलम्बमसहन्निव । सदा पञ्चायुधी विभ्रत्स नः श्रीरङ्गनायकः ॥” इति । तस्य सर्वेश्वरत्वद्योतक लक्षणमाह श्रीवत्सवक्षा इति । श्रीकरो वत्सः श्रीवत्सः, सच रक्तवर्णो मत्स्यविशेषः, सः वक्षसि दक्षिणे यस्य स श्रीवत्सवक्षाः। जगद्रक्षणोपयोगिपुरुषकारसंबन्धमाद नित्यश्रीरिति । नित्या अनपायिनी श्रीर्यस्यासौ नित्यश्रीः। “विष्णोः श्रीरनपायिनी" इत्यन्यत्रोक्तेः । अत एव अजय्यः जेतुमशक्यः । "क्षय्यजय्यौ शक्यार्थे" इति निपातनात् । एष रामः एवंभूतः परमात्मा, व्यक्तं निश्चितमिति संबन्धः ॥ १५॥ तनि०-तमसः परमः "अक्षरात्परतः परः" “यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः" इति श्रुति Mमृतियां तमसः परमः । “आदित्यवर्ण तमसः परस्तात् " इत्युक्तपरमपदवासी । धाता भूतभविष्पवर्तमानकालावच्छिन्नसकलजगनिर्माता । “ सूर्याचन्द्रमसौ धाता स्वाभाविकज्ञानशक्तियुक्तः । " पराऽस्य शक्तिविविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च" इति श्रुतेः । परमात्मा आत्मनामात्मा, सर्वान्तर्यामीति यावत् । “य आत्मनि तिष्ठन्त्रात्मनोऽन्तरो यमात्मा न वेद यस्थात्मा शरीर य आत्मानमन्तरो यमयति" इति श्रुतेः। सनातनः सदाऽस्तित्वयुक्तः । अनादिमध्यनिधन | जन्मवृद्धिनाशशून्यः । शाश्वतः अपक्षयरहितः । ध्रुवः परिणामशून्यः । एतेन पड्भावविकारशन्यत्वमुक्तम् । तथा च श्रीविष्णुपुराणे-" अपक्षयविनाशाम्या परिणामद्धिजन्मभिः । वर्जितः शक्यते वक्तुं यस्सदाऽस्तीति केवलम् ॥" इति । महतः परमः महतोऽपि महीयान् । तमसः परमः । धाता स्रष्टा । “यतो या इमानि भूतानि जायन्ते" इति श्रुतेः। प्रथम स्वरूपमुक्त्वा इदानी विग्रहगुणानाह-शङ्खचक्रगदाधर इत्यादिना । नित्यश्री नित्यानपायिश्रीः। अजय्यः जेतु For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy