________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.म. ॥३२७॥
www.kobatirth.org
रावणवधस्य मानुषेणाकृतत्वे केन कृतः स्यादित्याशङ्कय पक्षान्तरमुपक्षिपति-यदैवेत्यादिना ॥ ९-११ ॥ एवं सामान्यतो रामस्यामानुषत्वं प्रतिपाद्य उत्तरोत्तरोत्कृष्टयमेन्द्रादिदेवताविशेषत्वं प्रतिपादयति-अथवेत्यादिना । मायां सीतारूपाम् । अप्रतितर्किताम् अपरिमेय रूपलावण्याम् ॥ १२ ॥ १३ ॥ यदैवेत्यादिना सामान्यत उपन्यस्तममानुषत्वमेकत्र व्यवस्थापयितुमाह-व्यक्तमित्यादिना । महायोगित्वादिगुणविशिष्टो यो विष्णुः स एवैष राम इति
यदैव च जनस्थाने राक्षसैर्बहुभिर्वृतः । खरस्तव हतो भ्राता तदेवासौ न मानुषः ॥ ९ ॥ यदैव नगरीं लङ्का दुष्प्रवेशां सुरैरपि । प्रविष्टो हनुमान वीर्यात्तदेव व्यथिता वयम् ॥ १० ॥ यदैव वानरैर्घोरैर्वद्धः सेतुर्महार्णवे । तदेव हृदयेनाहं शङ्के रामममानुषम् ॥११॥ अथवा रामरूपेण कृतान्तः स्वयमागतः । मायां तव विनाशाय विधायाप्रतितर्किताम ॥ १२ ॥ अथवा वासवेन त्वं धर्षितोऽसि महाबल । वासवस्य कुतः शक्तिस्त्वां द्रष्टुमपि संयुगे ॥ १३ ॥ व्यक्तमेष महायोगी परमात्मा सनातनः । अनादिमध्यनिधनो महतः परमो महान् ॥ १४ ॥
Acharya Shri Kalassagarsuri Gyanmandir
| स्त्रीवचनमुखनैव विष्णोः सर्वदेवतापारम्यं भगवान् वाल्मीकिर्व्यवस्थापयति । महान् योगः लोकरक्षणोपायचिन्ता सोऽस्यास्तीति महायोगी । परमश्वासा वात्मा च परमात्मा, सर्वजीवात्मभ्य उत्कृष्ट इत्यर्थः । परमत्वमस्य कथमित्याशङ्कय पङ्गावविकाररहितत्वादित्याह सनातन इति । सदाऽस्तित्वयुक्त इत्यर्थः । अनादिमध्यनिधनः जन्मवृद्धिविनाशशून्यः । शाश्वतः अपक्षयरहितः । ध्रुवः परिणामरहितः । एतैर्विशेषणैर्जीवगतषङ्गावविकारशून्यत्वमुक्तम् । तथोक्तं श्रीविष्णुपुराणे - " अपक्षयविनाशाभ्यां परिणामर्द्धिजन्मभिः। वर्जितः शक्यते वक्तुं यः सदाऽस्तीति केवलम् ॥” इति । परमात्मशब्दार्थ विवृणोति महतः परमो महानिति । महान् इन्द्रादिः, तस्मान्महान् ब्रह्मादिः, तस्मादपि महानित्यर्थः ॥ १४ ॥ तनि०- व्यक्तमेषः परिशेषतः प्रमाणेन निश्चितो अभिमर्शनम् आक्रमणं यत् एतत् रामस्य न श्रद्दधामि रामसम्बन्धीति न श्रदधामीत्यर्थः ॥ ८ ॥ तस्मिन्नमानुषत्वे लिङ्गान्याह-यदैव च जनस्थान इत्यादित्रिभिः । व्यथिताः रामस्यामानुषत्वादिनिश्चयेनेति भावः ॥ ९-११ ॥ तर्हि केन वधः कृत इत्यत्राह अथवेति । रामरूपेण मानुषरूपेण मायाम् अपेक्षितशरीरग्रहणहेतुभूतां काविच्छक्तिं विधाय । इदानीं पक्षान्तरमवलम्बते अथवेति । अथवा अन्यः पक्षोऽस्तीत्यर्थः । पूर्वस्मिन् पक्षे को दोष इत्याशङ्कयाह-वात्वस्येति । वासवेन धर्षितोऽसीति यत् तत्र बोपपद्यते । वासवस्य त्वां द्रष्टुमपि शक्तिः कुतः ? नास्तीत्यर्थः ॥ १२ ॥१३॥ पक्षान्तरं विशिनष्टि व्यक्तमेष इत्यादिद्वाभ्याम् । महायोगी
For Private And Personal Use Only
टी. यु.कां. स० ११४
॥ ३२७॥