________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
मण्डा पृथुपिपीलिका तस्या इव उदरं यस्याः सा मण्डोदरीत्यप्याहुः ॥२॥ यद्यपि समरमरणं शूराणां श्वाध्यमिति न वीरपत्नी तच्छोचितुमहाँ,131 तथाप्यसमानान्मानुषात् प्राप्तमिदं लज्जावहमिति शोचति-ननु नाम तवेत्यादिना सार्घश्लोकेन ।नाम प्रसिद्धौ। महीदेवाःब्राह्मणाच, त्रस्यन्तीत्यनुषङ्गः। स कथं मानुषेण जित इति शेषः॥३॥४॥ ननु नामेत्यादिसायश्लोक एकान्वयः। चारणाश्च आकाशचारिणश्च । न व्यपत्रपसे, मानुषविजयेनेति
ननु नाम महाभाग तव वैश्रवणानुज । क्रुद्धस्य प्रमुख स्थातुं त्रस्यत्यपि पुरन्दरः ॥३॥ ऋषयश्च महीदेवा गन्धर्वाश्च यशस्विनः॥४॥ ननु नाम तवोरेगाच्चारणाश्च दिशो गताः। स त्वं मानुषमात्रेण रामेण युधि निर्जितः। न व्यपत्रपसे राजन् किमिदं राक्षसर्षभ ॥५॥ कथं त्रैलोक्यमाक्रम्य श्रिया वीर्येण चान्वितम् । अविषह्यं जघान त्वां मानुषो वनगोचरः॥६॥ मानुषाणामविषये चरतः कामरूपिणः । विनाशस्तव रामेण संयुगे नोपपद्यते
॥७॥ न चैतत् कर्म रामस्य श्रद्दधामि चमूमुखे। सर्वतः समुपेतस्य तव तेनाभिमर्शनम् ॥८॥ शेषः । किमिदं किमेवमवस्थानकारणमित्यर्थः॥५॥ कथमिति । वीर्येण त्रैलोक्यमाक्रम्य श्रियाऽन्वितं त्वां मानुषस्तत्रापि वनगोचरः कथं जपान, अद्भुतमित्यर्थः ॥ ६॥ तदेवासम्भावितत्वं निरूपयति-मानुषाणामिति । अविषये अगम्यदेशे ॥७॥ न चैतदिति । सर्वतः समुपेतस्य सर्वयुद्धोपकरणैः पूर्णस्य तव, तेन रामेण अभिमर्शनम् आक्रमणमिति यत्, एतद्रामस्य न श्रद्दधामि रामसम्बन्धिकमेति न श्रद्दधामि ॥८॥ रामानु०-नचैतत्कमत्येतच्लोका नन्तरं, यदैव च जनस्थाने राक्षसैर्वहुभिर्वृतः । खरस्तव हतो भ्राता नदेवासौ न मानुषः॥ यदेव नगरी लङ्का दुष्पवेशां सुरैराप । प्रविष्टो हनुमान् वीर्यात् तदैव व्यथिता वयम् ॥ यदैव वानरै घोरर्बद्धः सेतुर्महार्णवे । तदैव हृदयेनाई शके रामममानुषम् ॥ अथवा रामरूपेण कृतान्तः स्वयमागतः । मायां तव विनाशाय विधायापतितार्कताम् ॥ अथवा वासवेन त्वं धर्षितोऽसि महाबल। वासवस्य कुतः शक्तिस्त्वां द्रष्टुमापि संयुगे ॥ इति पाठक्रमः । अन्यथापाठस्तु लेखकप्रमादकृतः । रामस्य सामान्यतो मानुषत्वप्रतिपादनानन्तरमुत्तरोत्तरोत्कृष्टयमेन्द्रादिदेवताविशेषत्वप्रतिपाद नौचित्यात् । यदैवेति । न मानुषः, निश्चित इति शेषः ॥ ८॥९॥ कथमिति । वीर्येण त्रैलोक्यमाक्रम्प श्रियाऽन्वितं त्वामिति सम्बन्धः॥६॥ मानुषाणामविषये अप्राप्यदेशे॥णासर्वतस्समुपेतस्य सर्वैस्साधनस्समुपेतस्य तव तेन रामेण ।
For Private And Personal Use Only