________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ॥ २९ ॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
भयं भयजनकं पुरुषम् । रामो युद्धेन सीतां प्राप्स्यतीति पूर्व विभाषणोक्तस्य परिहारमाढ़-सुरैरिति । कथं (तिष्ठति) स्थास्यति ? स्थातुमेव न शक्तः कुतो योत्स्यति, कुतस्तरां सीतां प्राप्स्यतीति भावः ॥ २९ ॥ राघवं तृणीकृत्य कथमेवमाहेत्याशङ्कय तन्निदानं दर्शयति- इतीति । नाशनः हिंसकः । चण्डविक्रमः उग्रविक्रमः । आप्तवादिनं युक्तवादिनम् ॥ ३० ॥ इति श्रीगोविन्द ० श्रीरामायण० रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने दशमः सर्गः ॥ १० ॥ भयं न पश्यामि कुतश्चिदप्यहं न राघवः प्राप्स्यति जातु मैथिलीम् । सुरैः सहेन्द्रैरपि सङ्गतः कथं ममाग्रतः स्थास्यति लक्ष्मणाग्रजः ॥ २९ ॥ इतीदमुक्त्वा सुरसैन्यनाशनो महाबलः संयति चण्डविक्रमः । दशाननो भ्रातर मातवादिनं विसर्जयामास तदा विभीषणम् ॥ ३० ॥ इत्यार्षे श्रीरामायणे • श्रीमद्युद्धकाण्डे दशमः सर्गः ॥ १० ॥
बभूव शो राजा मैथिलीकाममोहितः । असम्मानाच्च सुहृदां पापः पापेन कर्मणा ॥१॥ [ अतीव कामसंपन्नो वैदेहीमनुचिन्तयन् । ] अतीतसमये काले तस्मिन् वै युधि रावणः । अमात्यैश्च सुहृद्भिश्च मन्त्रकालममन्यत ॥ २॥ अथ परेद्युर्विभीषणाद्युपदेशेऽतिचिन्ताव्याकुलस्य रावणस्य निर्णयहेतुमन्त्रकरणाय सभाप्राप्तिं दर्शयति स बभूवेत्यादि । पापः पापी । “ गुणवच नेभ्यो मतुपो लुगिष्टः " इति मतुपो लुक् । असम्मानात् अनादरात् । सुहृदां विभीषणादीनाम् । कर्तरि षष्ठी। विभीषणोक्ते तूष्णीं स्थितत्वेन प्रहस्ता दीनामप्यनादरः सिद्ध एव । पापेन कुत्सितेन सीतापहरणरूपेण कर्मणा । हेतौ तृतीया । मैथिलीकाममोहित इति हेतुगर्भविशेषणम् । तथा च मैथिली विषयकाममोहात् सुहृदनादरात् पापहेतुसीताहरणाच्च कृशः । चिन्ताकुलो बभूवेत्यर्थः ॥ १ ॥ अतीतेति । तस्मिन् काले मन्त्रयोग्यकाले । अतीत समये अतीतावसरे सति । युधि च सत्यां युद्धे च प्राप्ते सति । अमात्यैश्व सुहृद्भिश्व मन्त्रस्य प्राप्तकालममन्यत । मुनिहृदयं तु कालेऽतीतसमये कालः भूतकालः । आयतिः उत्तरकालः । सम्प्रति वर्तमानकालः तत्र क्षमं योग्यम् । उपस्थितज्वरः प्राप्तक्रोधः । प्रसङ्गवान् प्रकृष्टोपसङ्गवान् स्वगृहीतार्थी भिनिवेशवानित्यर्थः ॥२८-३०॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां युद्धकाण्डव्याख्यायां दशमः सर्गः ॥ १० ॥ स बभूवेति । असम्मानात् अनादराव । सुहृदां विभीषणादीनाम् । पापेन कर्मणा पापहेतुभूतसीतापहरणेन । हेतौ तृतीया ॥ १ ॥ मन्त्रकालममन्यत मन्त्रकालं प्राप्तममन्यते। स० [अतीतसमये अतीतो भवति समयः द्वादशमासात्मकः सीताप्राप्तौ सङ्केतरूपो यस्मिंस्तस्मिन् काले । अनुचिन्तयन् तत्प्राप्तिमिति शेषः । युधि युद्धविषये अमात्यादिभिः सह प्राप्तकालं योग्यमालोचन | मित्यमन्यत । युधि बुद्धे । अतीतसमये विभीषणोक्तदिशा प्रतिबद्धे सति काले तत्काले मन्त्रणं प्राप्तकालं योग्यमित्यमन्यतेति वा ॥ २ ॥
For Private And Personal Use Only
टी. यु. कॉ.
स० ११
॥ २९ ॥