________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
तत्सूच्ये कार्य पराजये। एवं लङ्कादहनादिरूपेण प्रस्तुते प्रसक्ते सति । क्षमम् अशुभनिवारणसमर्थम् इदं प्रायश्चित्तम् । इदंशब्दार्थमाह-वैदेहीति M२२ ॥ एवमनभिमतभाषणेन राजा कुप्यतीति समाधत्ते-इमिति । मोहात कार्यतत्त्वापरिज्ञानात् । लोभात् जीवनलोभादापि । यदि व्याहृतम् । तत्रापि तथापि । मयि दोषम् अपराधं कर्तुं नाईसि ॥ २३ ॥ अयं दोषः पूर्वोक्तदुनिमित्तसूचितोऽनर्थः । सर्वस्योपलक्ष्यते । संबन्धसामान्ये षष्ठी।
इदंच यदि वामोहाल्लोभाद्रा व्याहृतं मया। तत्रापि च महाराज न दोषं कर्तुमर्हसि ॥२३॥ अयं च दोषः सर्वस्य | जनस्यास्योपलक्ष्यते । रक्षसां राक्षसीनां च पुरस्यान्तःपुरस्य च ॥ २४॥ श्रावणे चास्य मन्त्रस्य निवृत्ताः सर्व
मन्त्रिणः। अवश्यं च मयावाच्यं यदृष्टमपि वा श्रुतम् ॥ २५॥ सम्प्रधार्य यथान्यायं तद्भवान् कर्तुमर्हति ॥२६॥ इति स्म मन्त्रिणांमध्ये भ्राता भ्रातरमूचिवान् । रावण राक्षसश्रेष्ठं पथ्यमेतद्विभीषणः ॥ २७ ॥ हितं महाथै मृदु
हेतुसंहितं व्यतीतकालायतिसम्प्रतिक्षमम् । निशम्य तदाक्यमुपस्थितज्वरः प्रसङ्गवानुत्तरमेतदब्रवीत् ॥ २८॥ | सर्वेणापि लक्ष्यत इत्यर्थः ॥२४॥ प्रहस्तादिषु विद्यमानेषु भवतैव किमुच्यते तबाह-श्रावणे चेति । तेषां त्वच्चित्तमात्रानुसारित्वादिति भावः । श्रावणे त्वां प्रति विज्ञापने च । त्वं पुनः कथं वक्तुं प्रगल्भसे तबाह-अवश्यमिति ।भ्रातृत्वादिति भावः ॥ २५ ॥ सम्प्रधात्यर्धम् । यथान्यायं यथायोग्यम् । संप्रधार्य मनस्येव निश्चित्य । तत् संप्रधारित कार्यम् ॥२६॥ इत्येतदूचिवानित्यन्वयः । ऊचिवान उक्तवान् । “कसुश्च" इति लिटः कस्वादेशः ॥२७॥ महाथै प्रयोजनव्याप्तम् । मृदु सान्त्वपूर्वम् । हेतुसंहितं युक्तियुक्तम् । व्यतीतकालायतिसंप्रतिक्षम व्यतीतकालः भूतकालः, आयतिः भविष्यत्काल संप्रति वर्तमानकालः तत्र क्षमम् । अकीर्तिनाशकत्वेन सीतापहरणप्रायश्चित्तत्वेन वाऽप्यतीतकालक्षमम् । सुखवर्धकत्वेन वर्तमानकालक्षमम् । धर्मा वहत्वेनायतिक्षमम् । उपस्थितज्वरः प्राप्तकोष इत्यर्थः । प्रसङ्गवान् परिगृहीतार्थेऽभिनिवेशवान् ॥ २८॥ माहात कार्यतत्वापरिज्ञानात । लोभात जीवनलोभाद्वा यदि व्यावतम् तत्रापि तथापि मपि दोषमपराधम् ॥ २३ ॥ अविद्यमानवनिमित्तमुक्त्या किमर्थ भीषयसे इत्याशङ्कयाह-अयमिति । अयं दोषः पूर्वोक्तदुनिमित्तरूपः । सर्वस्येत्यादिषु तृतीयार्थे षष्ठी । सर्वम्य जनस्योपलक्ष्यते सर्जनश्यत इत्यर्थः ॥ २४ ॥ अयं दोषस्तन्यिमन्त्रिभिः किमिनि न निवेद्यत इत्याशय त्वद्भयान्न आवयन्तीत्याह-श्रावणे चेति ॥ २५-२७ ॥ हितमिति । व्यतीतकालायतिसम्मतिक्षम व्यतीत
For Private And Personal Use Only