________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
सिंहाः राक्षसाः त एव लाड्यूलककुद्विषाणानि यस्य स तथा। "सिंहा राक्षसाः प्रोक्ता यक्षा उष्णीषिणो मताः।" इति निघण्टुः। यद्वा सिंहाला मूलानक्षत्रं तच्च राक्षसनक्षत्रम् । यथाऽऽद्द ज्योतिषे काश्यपः-"अग्निर्मघा विशाखा च आश्शेषा शततारका । धनिष्ठा चित्रया युक्ता ज्येष्ठा मूला च राक्षसाः ॥” इति । तत्सम्बन्धादाक्षसा अपि तच्छन्देनोच्यन्ते । राक्षसतवृद्धहेतुत्वेन लाशूलादित्वेन रूपणम् । परानभिजयतीति पराभि । जित् । गन्धने परोत्सादने गन्धहस्ती मुख्यः। “गन्धनं सूचनोत्साहहिंसनेषु प्रकाशने " इति विश्वः। चापलं विषयलौल्यम्, तदेव कर्णचक्षुषी यस्य । सिंहक्षलागृलककुद्विषाणः पराभिजिद्गन्धनगन्धहस्ती । रक्षोवृषश्चापलकर्णचक्षुः क्षितीश्वरव्याघ्रहतोऽवसन्नः ॥१३॥ वदन्तं हेतुमद्वाक्यं परिमृष्टार्थनिश्चयम् । रामः शोकसमाविष्टमित्युवाच विभीषणम् ॥ १४ ॥ नायं विनष्टो निश्चेष्टः समरे चण्डविक्रमः। अत्युनतमहोत्साहः पतितोऽयमशङ्कितः ॥१५॥ नैवं विनष्टाः शोच्यन्ते क्षत्रधर्ममव
स्थिताः । वृद्धिमाशंसमाना ये निपतन्ति रणाजिरे ॥ १६ ॥ स तथा । रक्षावृषः रावणवृषभः, क्षितीश्वरव्यात्रेण रामशार्दूलेन, हतः अवसन्नः मृतः॥ १३ ॥ वदन्तमिति । परिमृष्टार्थनिश्चयं कृतार्थनिश्चयम् ॥१४॥ अयं निश्चेष्टः निर्विक्रमः न विनष्टः, अपि त्वयं समरे चण्डविक्रमः अत्युनतमहात्साह : अशङ्कितः पतितः विनष्टः ॥ १५ ॥ यदि समरे विक्रम्य नष्टः । ततः किमित्यत्राह-नैवामित्यादि । ये वृद्धि परलोकवृद्धिम्, आशंसमानाः आकाइमाणाः सन्तः रणाजिरे निपतन्ति । क्षत्रधर्ममवस्थिताः शूरधर्म सिंहक्षलापलककुद्विषाणः सिंहाः राक्षसाःत पव लाशलककुद्विषाणानि यस्य सः । "सिंहा राक्षसाः प्रोक्ता यक्षा उष्णीषिणो मताः।" इति शाश्वतः परानभिजयतीति पराभिजित् । गन्धनगन्धहस्ती गन्धने उत्सादने गन्धहस्ती मदगजतुल्यः। “गन्धनं सूचनोत्साहहिंसनेषु प्रकाशने " इति विश्वः । चापल कर्णचक्षुः चापलं धर्मस्खलनं तदेव कर्णचक्षुषी यस्य सः ॥ १३ ॥ १४ ॥ नायमिति । अयं निश्चेष्टः निर्विक्रमो न विनष्टः, अपितु समरे चण्डविक्रमः उन्नतमहो त्साहः अशङ्कितः पतितः नष्टः ॥ १५ ॥ ततः किमित्यत आह-नैवं विनष्टा इति । ये वृद्धिमाशंसमाना रणाजिरे निपतन्ति क्षत्रधर्मव्यवस्थिताः केवलं |
सपराभिजिद्गन्धनगन्धहस्ती पराननिजपतीति पराभिजितः, तद्न्धने हिंसायां गन्धहस्ती मतंगजतुस्यः । चापलकर्गचक्षुः चाल चय कर्गचक्षुः यस्य सः । कर्णपोषापलम् अश्राव्यशूर्पणखादि प्रलपित्तनवणेन तत्र चित्तप्रणिधानम् । चक्षुषोः अनवलोकनीयपरदारसौन्दर्यदर्शनम् ॥ १३॥ यमशङ्कितः यमः शङ्कितो यस्मादिति वा ॥ १५॥
For Private And Personal Use Only