________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पा.रा.भू.
ዘዘ
यावत् । साम्प्रतं हतवीरस्य लोकस्य किमिव शेषम्, सर्व शून्यमभूदित्यर्थः ॥९॥ धृतिरेव प्रवालो यस्य स तथा । धैर्य हि वृक्षस्य पल्लववत् प्रथमटी .यु.का. फलम् । प्रसहत इति प्रसहः । पचायच । भावप्रधानो निर्देशः । स एव अग्र्यपुष्पं श्रेष्ठपुष्पं यस्य स तथा। प्रसहनं हि पुष्पवत्कार्यफलस्य अव्यव हितहेतुः। तप एव बलं स्थैर्योशो यस्य स तथा । शौर्यमेव निबद्धमूलं निश्चलमूलं यस्य स तथा, शौर्यमूलत्वात् तप प्रभृतीनां सर्वेषाम् ॥ १०॥
धृतिप्रवालः प्रसहाय्यपुष्पस्तपोबलः शौर्यनिवद्धमूलः । रणे महान् राक्षसराजवृक्षः सम्मर्दितो राघवमारुतेन ॥१०॥ तेजोविषाणः कुलवंशवंशः कोपप्रसादापरगावहस्तः । इक्ष्वाकुसिंहावगृहीतदेहः सुप्तः क्षितौ रावणगन्ध हस्ती ॥ ११॥ पराक्रमोत्साहविजृम्भिताचिनिश्वासधूमः स्वबलप्रतापः। प्रतापवान् संयति राक्षसाग्निनिर्वापितो
रामपयोधरेण ॥ १२॥ तेजः पराक्रम एव विषाणो यस्य स तथा। तेजो हि विषाणवत् परमर्मभेदि । कुलवंशवंशः कुलं पितृपितामहादयः तेषां वंशः सर्गः स एव वंशः पृष्ठा वयवविशेषो यस्य स तथा । “वंशो वेणौ कुले वर्ग पृष्ठस्यावयवेऽपि च” इत्युभयत्रापि विश्वः । कुलेन हि वंशेनेव स्वाश्रितधारणम् । कोप एवापरगावं शिरोव्यतिरिक्तशरीरं यस्य स तथा । प्रसाद एव हस्तो यस्य स तथा । कोपस्य बहुत्वादपरगावत्वेन रूपणम् । इक्ष्वाकुः रामः स एव सिंहः तेन अवगृहीत देहः रावणगन्धहस्ती रावण एव मत्तगजः क्षिती सुप्तः, मृत इत्यर्थः ॥११॥ पराक्रमोत्साहावेव विजृम्भितार्चिः विस्तृतज्वालः। निश्वास एव धूमो। यस्य स तथा । स्वबलप्रतापः स्वबलोष्णः। प्रतापवान तेजस्वी। राक्षसानिः रामपयोधरेण निर्वापितः॥ १२॥ शिष्टमित्यर्थः ॥ ९॥ प्रसहाग्यपुष्पः प्रसहत इति प्रसहः । पञ्चाद्यचू । भावप्रधानोऽयं निर्देशः । प्रसहः मसहत्वं तदेवाम्यपुष्पं यस्य सः । प्रसवाभ्यपुष्पः इति पाठे प्रसवः सन्तानः ॥१०॥ कुलवंशवंशः कुलं पितृपितामहादयः तेषां वंशो वर्गः स एव वंशः पृष्ठावयवविशेषो यस्य सः । "वंशो वेणो कुले धर्गे पृष्ठस्याव ||३२३॥ यवेऽपि च" इति विश्वः । कोपप्रसादापरगावहस्तः कोपापरगाव: प्रसादहस्तश्चेत्यर्थः । इक्ष्वाकु: रघुनाथः॥११॥ पराक्रमोत्साहावेव विजम्भिताचिः। स्वबलमेव प्रतापः । प्रतापवान् तेजस्वी ॥ १२ ॥
For Private And Personal Use Only