SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kalassagarsun Gyanmandir शोकस्य पूर्वश्लोकेनान्वयः । भुजावित्यनेनान्त्ययुद्ध द्विभुजस्थितिर्गम्यते । मुकुटेन, उपलक्षित इति शेषः। अपवृत्तेन पतनवेगादीपञ्चलितेन ॥२॥३॥ तदिदमिति । मया पूर्व समीरितं यद्वचः काममोहपरीतस्य ते न रुचितं नेष्टमासीत् । तदिदं वचः सम्प्राप्तम्, त्वयाऽनुभूतमित्यर्थः ॥ ४॥ यदित्यादि सार्घश्चोक एकान्वयः। यत्पापकर्म प्रहस्तो दर्पात् नामन्यतेति विपरिणामेनानुषज्यते । एवं सर्वत्र योजनीयम् । अतिरथ इत्यतिकायविशेषणम् ।। तदिदं वीर सम्प्राप्तं मया पूर्व समीरितम् । काममोहपरीतस्य यत्ते न रुचितं वचः ॥ ४॥ यन्त्र दर्पात् प्रहस्तो वा । नेन्द्रजिन्नापरे जनाः। न कुम्भकर्णोऽतिरथी नातिकायो नरान्तकः। न स्वयं त्वममन्येथास्तस्योदर्कोऽयमागतः ॥५॥ गतः सेतुः सुनीतानां गतो धर्मस्य विग्रहः । गतः सत्त्वस्य संक्षेपः प्रस्तावानां गतिर्गता ॥ ६॥ आदित्यः पतितो भूमौ मनस्तमसि चन्द्रमाः॥७॥ चित्रभानुः प्रशान्ताचिर्व्यवसायो निरुद्यमः। अस्मिन्निपतिते भूमौ वीरे शस्त्रभृतां वरे ॥८॥ किं शेषमिव लोकस्य हतवीरस्य साम्प्रतम् । रणे राक्षसशार्दूले प्रसुप्त इव पांसुषु ॥९॥ अमन्येथाः अमन्यथाः। एत्वमापम् । तृणीकृतवानसीत्यर्थः । तस्य सीताहरणरूपस्य उदः फलमागतम् ॥५॥ गत इति । सुनीतानां नयाना सेतुः मर्यादा। धर्मस्य विग्रहः विरोधः। यद्वा अधर्मस्येति छेदः । विग्रहः देहः । यद्वा धर्मस्य विग्रहः देहः । “एषोहिताग्निश्च महातपाश्च" इत्यादिना राव णस्य धार्मिकत्वकथनात् । सत्त्वस्य बलस्य, संक्षेपः सङ्ग्रहः । प्रस्तावानां प्रकृष्टस्तुतीनां गतिः विषयः ॥६॥ आदित्य इत्यादिसाश्चोक एकान्वयः। अस्मिन्निति । अस्मिन्निपतिते आदित्यः पतित इत्याद्यभेदातिशयोक्तिः। चित्रभानुः वह्निः। “सूर्यवह्नी चित्रभानू" इत्यमरः । व्यवसायो निरु द्यमः, रावणसदृशाश्रयाभावाब्यवसायः उत्साहशक्तिः निर्व्यापारोऽभूदित्यर्थः ॥७॥८॥ राक्षसशार्दूले रावणे पांसुषु प्रसुप्त इस स्थिते, मृत इति यदित्यादि । न स्वयमिति । अमन्येथाः । एत्वमार्षम् ॥५॥ गत इति । सेतुः मर्यादा । सुनीताना नयानां संक्षेपः संक्षिप्त इति संक्षेपः संग्रहः । प्रस्ता वानामुचितोक्तीनां स्तुतीनां वा ॥१॥ आदित्य इत्यादि । व्यवसायः उत्साहशक्तिः। रावणसहशाश्रयणीयस्याभावायवसायो निर्व्यापारोऽभूदित्यर्थः । अस्मि निपतिते भूमावित्य पूर्वशेषम् ॥ ७॥८॥ किं शेषमिवेत्यर्धमुत्तरशेषम् । पांमुष प्रसुप्त इव स्थिते सति साम्प्रतं हतवीरस्य लोकस्य किं शेषम्, न किविदव For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy