________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
॥३२२॥
राघवस्तवसंयुक्ता वागित्यन्वयः ॥ २९ ॥ चारणेः सह चारणैः सहितान् देवानित्यर्थः॥३०॥ तत इति । सुग्रीववधुवराजत्वेन प्रत्युपकारायाङ्गदेनापिटो .यु.का. वा-रा.भू-IN
रावणवधस्य कासितत्वात् सकामत्वम् ॥३३॥ प्रशमं प्रसादम् । मरुद्गणाः देवगणाः। मही न चकम्पे महीकम्पाभावस्य शुभमूचकत्वात् । इत्याहुः । रावणवधपर्यन्तं सकम्पा स्थिता मही तद्वधानन्तरं निष्कम्पाऽभवदिति चाहुः । ववो, सुखमिति शेषः ॥ ३२॥ सुहृद्विशेषाः जाम्बवदादयः।
आविवेश महाहों देवानां चारणैः सह । रावणे निहतेरोद्रे सर्वलोकभयङ्करे ॥ ३०॥ ततः सकामं सुग्रीवमङ्गदं च महाबलम् । चकार राघवः प्रीतो हत्वा राक्षसपुङ्गवम् ॥ ३३ ॥ ततः प्रजग्मुः प्रशम मरुद्गणा दिशः प्रसेदुर्विमलं नभोऽभवत्। मही चकम्पेन हि मारुतोवौ स्थिरप्रभश्चाप्यमवदिवाकरः ॥ ३२ ॥ ततस्तु सुग्रीवविभीषणादयः सुहृद्विशेषाः सहलक्ष्मणास्तदा।समेत्य हृष्टा विजयेन राघवंरणेऽभिरामं विधिना ह्यपूजयन् ॥३३॥ स तु निहतरिपुः स्थिरप्रतिज्ञःस्वजनवलाभिवृतो रणे रराज । रघुकुलनृपनन्दनो महौजास्त्रिदशगप्परभिसंवृतो यथेन्द्रः ॥ ३४ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमयुद्धकाण्डे एकादशोत्तरशततमः सर्गः ।। 191॥
भ्रातरं निहतं दृष्ट्वा शयानं रामनिर्जितम् । शोकवेगपरीतात्मा विललाप विभीषणः ॥ ॥ वीर विक्रान्त विख्यात विनीत नयकोविद । महार्हशयनोपेत किं शेषेऽद्य हतो भुवि ॥२॥
विक्षिप्य दीर्घा निश्चेष्टौ भुजावङ्गदभूषितौ। मुकुटेनापवृत्तेन भास्कराकारवर्चसा ॥३॥ साहिशब्दः पादपूरणे । विजयेन हा इत्यन्वयः। विधिना कमेण ॥३३॥ फाल्गुनामावास्यायां रावणवधः ।यदा चैत्रशुद्धपतिपदि शिष्टामावास्यायां प्रातःकाले रावणवधः । पूर्व सर्वरात्रमवर्ततेत्युक्तेः ॥३४॥ इति श्रीगोवि० श्रीरामा रत्नकिरी युद्धकाण्डव्याख्याने एकादशोत्तरशततमः मर्गः13390 अथ भ्रातृवधदर्शनेन हठात् प्रवृत्तं प्रकृतिसंबन्धकृतं शोकं सोढुमशक्नुवन् विभीषणो विलपति-भातरमित्यादि । शयानं शयानमिव स्थितम् । शोक वेगपरीतात्मा शोकवेमेन परीतमनस्कः । वेगशब्देन हठकृतः शोक इति द्योत्यते ॥ १॥ वारेत्यादि । विनीत विद्यासु शिक्षित ! विक्षिप्येत्यस्य ततःप्रजग्मुःप्रशमं प्रसाद मरुद्गणाः महीन चकम्पे मारुतो वो, सुखमिति शेषः । अमावास्यायो रावणवधः ॥ इति युद्ध एकादशोत्तरशततमस्सर्गः ॥१११॥१४॥
1133
For Private And Personal Use Only