________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
-
-
रावणाय चिक्षेपेत्यन्वयः ॥ १६॥ स वज्र इति । वज्रिबाहुविसर्जितो वज्र इवेत्यन्वयः ॥ १७-१९ ॥ स शर इति । निभृतवत् विनीतवत् ॥२०॥ तस्येति । प्राणैः सह जीवितात् प्राणधारणयत्नात्, भ्रश्यमानस्य तस्य हस्तात् ससायकं कार्मुकं पपात ॥२१-२३ ॥ नर्दन्तश्चेत्यर्धमेकं वाक्यम्
स वच इव दुर्धर्षों वचिबाहुविसर्जितः । कृतान्त इव चावार्यो न्यपतद्रावणोरसि ॥ १७ ॥ स विसृष्टो महावेगः शरीरान्तकरः शरः । विभेद हृदयं तस्य रावणस्य दुरात्मनः॥१८॥ रुधिराक्तः स वेगेन जीवितान्तकरः शरः। रावणस्य हरन प्राणान विवेश धरणीतलम् ॥१९॥ स शरो रावणं हत्वा रुधिराीकृतच्छविः। कृतका निभृतवत् स्वतूणीं पुनरागमत् ॥ २०॥ तस्य हुस्ताद्वतस्याशु कार्मुकं तत् ससायकम् । निपपात सह प्राणैर्धेश्यमानस्य जीवितात् ॥२१॥ गतासुर्भीमवेगस्तु नैतेन्द्रो महाद्युतिः । पपात स्यन्दनाडूमौ वृत्रो वबहतो यथा ॥ २२ ॥ तं दृष्ट्वा पतितं भूमौ हतशेषा निशाचराः । हतनाथा भयत्रस्ताः सर्वतः सम्प्रदुद्रुवुः ॥ २३॥ नर्दन्तश्चाभिपेतुस्तान वानरा दुमयोधिनः ॥ २४ ॥ दुशग्रीववधं दृष्ट्वा विजयं राघवस्य च । अदिता वानरैर्हष्टैर्लङ्कामभ्यपतन भयात् । गताश्रयत्वात् करुणाष्पप्रस्रवणमुखैः ॥२५॥ ततो विनेदुः संहृष्टा वानरा जितकाशिनः । वदन्तो राघवजयं रावणस्य च तद्वधम् ॥ २६ ॥ अथान्तरिक्षे व्यनदत् सौम्यस्त्रिदशदुन्दुभिः। दिव्यगन्धवहस्तत्र मारुतः ससुखो ववौ ॥ २७ ॥ निपपातान्तरिक्षाच्च पुष्पवृष्टिस्तदा भुवि । किरन्ती राघवरथं दुरवापा मनोरमा ॥२८॥ राघव
स्तवसंयुक्ता गगनेऽपि च शुश्रुवे । साधु साध्विति वागय्या दैवतानां महात्मनाम् ॥ २९ ॥ ॥ २४ ॥ दशग्रीवेत्यादिसार्धशोक एकान्वयः । मुखैः उपलक्षिताः, राक्षसा इति शेषः ॥ २५ ॥ तत इति । तद्वधं तं वधम् ॥ २६-२८॥ राघवेति । सन्दध इत्यनेन सम्बन्धः ॥ १४-१९ ॥ स शर इति । निभृतवत विनीतवत् ॥ २७.३१ ॥
For Private And Personal Use Only