SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir दशरथेति । निर्धारणे पष्ठी । दशरथसुतराक्षसेन्द्रयोः रामरावणयोर्मध्ये राघवस्य जयमनवेक्ष्य महान् महाबुद्धिरित्यर्थः । सुरवरस्थसारथिः एनं ४ रामम् उवाच ॥ ३९ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने दशोत्तरशततमः सर्गः ॥११॥ दशरथसुतराक्षसेन्द्रयोर्जयमनवेक्ष्य रणे स राघवस्य । सुरवररथसारथिमहान रणगतमेनमुवाच वाक्यमाशु ॥३९॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे दशोत्तरशततमः सर्गः ॥ ११०॥ अथ संस्मारयामास राघवं मातलिस्तदा । अजानन्निव किं वीर त्वमेनमनुवर्तसे ॥१॥ विसृजास्मै वधाय त्वमस्त्रं पैतामहं प्रभो। विनाशकालः कथितो यः सुरैः सोऽद्य वर्तत ॥२॥ ततः संस्मारितो रामस्तेन वाक्येन मातलेः। जग्राह सशरं दीप्तं निश्वसन्तमिवारगम् ॥ ३॥ यमस्मै प्रथमं प्रादादगस्त्यो भगवानृषिः । ब्रह्मदत्तं महाबाण ममोघं युधि वीर्यवान् ॥ ४॥ ब्रह्मणा निर्मितं पूर्वमिन्द्रार्थममितौजसा। दत्तं सुरपतेः पूर्व त्रिलोकजयकांक्षिणः ॥५॥ यस्य वाजेषु पवनः फले पावकभास्करौ। शरीरमाकाशमयं गौरवे मेरुमन्दरौं ॥ ६॥ अथ रावणवधः अथ संस्मारयामासेत्यादिश्लोकद्वयमेकान्वयम् । अजानन्निव ब्रह्मास्त्रमजानन्निव । एनं रावणम्, अनुवर्तसे अस्रस्य प्रत्यत्रप्रयोग मात्रं करोषि । विनाशकालः मानुषेण वधः इत्युक्तः कालः ॥1॥२॥ ततः संस्मारित इत्यायेकादश श्लोका एकान्वयाः। प्रथमं पूर्व दण्डका |रण्ये ॥ ३ ॥४॥ ब्रह्मदत्तमित्येतद्विवृणोति-ब्रह्मणेत्यादिना ॥५॥ यस्य वाजेष्विति । पवनादीनामधिदेवतात्वेनावस्थानम् । फले शल्ये ॥ ६॥ युद्धस्यायमनुवादः । अस्मिन् पाठे सप्तरात्रकृतरामरावणयुद्धस्यास्मिन् रामायणे अश्रूयमाणत्वेन अनुपपन्नत्याच सर्वरात्रमवर्ततेति पाठः समीचीनः । सर्वरात्रम् अहोरात्रमित्यर्थः ॥ ३७॥ ३८ ॥ दशरथसुतराक्षसेन्द्रयोरित्यत्र निर्धारणे षष्ठी ॥ ३९ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायो युद्धकाण्डव्याख्यायां दशोत्तरशततमः सर्गः॥ ११०॥ अथेत्यादि । अनुवर्तसे अनुकरोषि, उपेक्षस इति यावत ॥१॥ अस्मै एनं प्रति ॥२-५॥ यस्येत्यादि | स-संस्मारयामास रामस्य वासयतामिनि शेषः । अजाननिवेन्यनेन रामस्य सा सूचयति ॥१॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy