________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा.रा. ॥३२.
स०११०
मारीच इत्यादिसायश्लोकद्रयमेकान्वयम् । कौञ्चावने कबन्धः, दण्डकारने विराध इत्यन्वयः ॥ ३२॥ प्रात्ययिकाः विश्वस्तात इमे रावणे विषयेटी .यु.कां. मन्दतेजसः अल्पशक्तिकाः अभवन् । तत्कारणं किं नु, न जानामीति शेषः ॥ ३३-३५ ॥ तदिति ॥ त्रिकूटशिखरे युध्यतोस्तयोराग्रहकृतगतिवशेन ।
मारीचो निहतो यैस्तु खरो यैस्तु सदूषणः । क्रौञ्चावने विराधस्तु कबन्धो दण्डकावने ॥ ३२ ॥ यः साला गिरयो भग्रा वाली च क्षुभितोऽम्बुधिः । त इमे सायकाः सर्वे युद्धे प्रात्ययिका मम । किं नु तत्कारणं येन रावणे मन्दतेजसः ॥ ३३ ॥ इति चिन्तापरश्वासीदप्रमत्तश्च संयुगे । ववर्ष शरवर्षाणि राघवो रावणोरसि ॥३४॥ रावणोऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः। गदामुसलवर्षेण रामं प्रत्यर्दयद्रणे ॥ ३५॥ तत् प्रवृत्तं महद्युद्धं तुमुलं रोमहर्षणम् । अन्तरिक्षे च भूमौ च पुनश्च गिरिमूर्धनि॥ ३६॥ देवदानवयक्षाणां पिशाचोरगरक्षसाम् । पश्यता
तन्महाद्धं सर्वरात्रमवर्तत ॥३७॥ नैव रात्रं न दिवसं न मुहूर्त न च क्षणम् । रामरावणयोर्युद्धं विराममुपगच्छति॥३८ अन्तरिक्ष भूमौ च पुनश्च गिरिमूर्धनि त्रिकूटशिखरे च तन्महयुद्धं प्रवृत्तमित्यर्थः ॥३६॥ देवदानवेति । “यस्य च भावन-" इति भावलक्षणे षष्ठी। सर्वरात्रम् अहोरात्रमित्यर्थः । सप्तरात्रमित्यपपाठः । वक्ष्यमाणदिनसङ्ख्याविरोधात् । यद्वा सर्वरात्रमित्यपपाठः । सप्तरात्रमित्येव सम्यक् पाठः । फाल्गुनचतुर्दश्यां हनुमता लङ्कादाहः । पौर्णमास्यां रामस्य समुद्रतीरप्राप्तिः । प्रथमाद्वितीयातृतीयासु दर्भशयनम् । अष्टम्यां सुवेलारोहणम् । नवम्यां। युद्धारम्भ इति सप्तराचं रामरावणयुद्धमिति । इदं च "इतस्तु नवमेऽहनि" इत्यत्र विस्तृतम् ॥ ३७ ॥ नैव रात्रमिति । "कालावनोरत्यन्त संयोगे " इति द्वितीया ॥३८॥ रामानु०-देवदानवयक्षाणां पिशाचोरगरक्षसाम् । पश्यतां तन्महादं सर्वरात्रमवर्तत ॥ नैव रात्रं न दिवस न मुहूर्त न च क्षणम् । राम रावणयोर्युद्धं विराममुपगछति ॥ इति श्लोकद्धयं के चित्कोशेषु पतितम् ॥ ३७ ॥ ३८॥
॥३२॥ न इम इति । प्रात्ययिकाः विश्वस्ताः, अमोघा इत्यर्थः॥ ३३-३५ ॥ त्रिकूटशिखरे युद्धचतोस्तयोरामहादन्तरिक्षे भूमौ च विकटशिखरस्थाधस्तनभूमौ पुनश्च गिरिमूर्धनि त्रिकूटशिखरे च तन्महाद्धं प्रवृत्तमित्यर्थः॥ ३६॥ देवादीनां पश्यतां सतां सप्तरा महाद्धमवर्ततेति सम्बन्धः । अगस्त्यागमनात्प्रागेव सिद्धस्य
स-रिलि । जाती बहुवचनम् । येन, एके पुणेति प्रतिज्ञाकाल सक्ने । राली व म पश्चषः ॥ १३ ॥
For Private And Personal Use Only