________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पा.रा.भू. ॥३१॥
स. ११.
महादम् इत्यर्धत्रयं द्रष्टव्यम् ॥ १४ ॥ रथस्थः रथे निश्चलतया स्थित इत्यर्थः ॥१५॥ ततःप्रवृत्तमित्यर्धमेकं वाक्यम् ॥१६॥ निस्वनः, वेगजैरिति शेषः॥१७॥ क्षुब्धानामिति । क्षुब्धेषु सागरेष्वित्यर्थः ॥ १८-२२ ॥ गन्धर्वाप्सरसामित्यर्धानन्तरं गगनं गगनाकारमिति श्लोकः । तदनन्तरम् एवं ब्रुवन्त इत्यर्घम् ।
रावणोऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः । गदामुसलवर्षेण रामं प्रत्यर्दयद्रणे ॥ १५॥ तत्प्रवृत्तं महाद्धं तुमुलं रोमहर्षणम् ॥१६॥गदानां मुसलानां च परिघाणां च निस्वनैः ।शराणां पुङ्गपातैश्च क्षुभिताः सप्त सागराः ॥ १७ ॥ क्षुब्धानां सागराणां च पातालतलवासिनः । व्यथिताः पन्नगाः सर्वे दानवाश्च सहस्रशः॥ १८॥ चकम्पे मेदिनी कृत्स्ना सशैलवनकानना । भास्करो निष्प्रभश्चासीन ववौ चापि मारुतः ॥ १९॥ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। चिन्तामापेदिरे सर्वे सकिन्नरमहोरगाः॥२०॥स्वस्ति गोब्राह्मणेभ्यस्तु लोकास्तिष्ठन्तु शाश्वताः। जयतां राघवः सङ्खये रावणं राक्षसेश्वरम् ॥ २१ ॥ एवं जपन्तोऽपश्यंस्ते देवाः सर्षिगणास्तदा । रामरावणयोर्युद्धं सुघोरं रोमहर्षणम् ॥ २२ ॥ गन्धर्वाप्सरसा सङ्घा दृष्ट्वा युद्धमनूपमम् ॥ २३ ॥ गगनं गगनाकारं सागरः सागरो
पमः । रामरावणयोयुद्धं रामरावणयोरिव । एवं ब्रवन्तो ददृशुस्तद्युद्धं रामरावणम् ॥ २४ ॥ गन्धर्वाप्सरसा सङ्काः अनूपमम् अनुपमम्, युद्धं दृष्ट्वा गगनं गगनाकारमित्येवं त्रुवन्तस्तन्तः पुनर्ददृशुरित्यन्वयः । अनुपमत्वमेवाह-गगनमिति । यथा गगनसागरयोः सदृशवस्वन्तराभावः तथा रामरावणयुद्धस्य सदृशं युद्ध किंचित्रास्तीत्यर्थः । सदृशान्तरनिवृत्तिफलकोऽनन्वयालङ्कारः । राम न कुद्धः अत एव रिपुं विमुखं चकारेति सम्बन्धः ॥ १३-१७ ॥ क्षुब्धानामिति । सागराणां क्षुब्धाना सता पातालतलवासिनो व्यथिताः, जाता इति शेषः। ॥ १८-२१॥ एवमिति । जपन्तः वदन्तः ॥ २२॥ रामरावणानुपमयुद्धदर्शनविस्मितदेवादिजल्पनप्रकारमाह-गन्धर्वाप्सरसामित्यादि । लोकद्वयमेकं वाक्यम् । यथा मगनसागरयोस्सदृशवस्त्वन्तराभावाद्गगनं गगनेनेवोपमीयते सागरस्सागरेणेवोपमीयते तथैव रामरावणयुद्धं रामरावणयोर्युद्धमिवाभवादित्येवं युवन्तो गन्धर्वादयः रामरावण रामरावणयोः सम्बन्धि तयुद्धं ददृशुरित्यन्वयः । अनन्वयवावालङ्कारः। तदुक्तं काव्यप्रकाशिकायाम्-" एकस्पैवोपमानोपमेयत्वेऽनन्वयो मतः" इति । राहोशिशर इतिवदभेदेऽपि भेदव्यवहारः॥ २३ ॥२४॥
For Private And Personal Use Only