________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू.
॥३१७॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
जयोऽवश्यंभावीति । मर्तव्यमिति मरणमवश्यंभावीति । आवश्यकत्वार्थे तव्यः । धृतौ धैर्यवन्तौ ॥ ७ ॥ ८ ॥ रथशक्तिं रथबलम् परामृश्य प्राप्य । रथशक्तिप्रघातेन ध्वजमनासाद्य निपेतुरित्यर्थः ॥ ९ ॥ सम्प्रचकमे उद्युक्तवान्, सङ्कल्पितवानित्यर्थः ॥ १० ॥ असह्यं दुर्दर्शमित्यर्थः ॥ ११ ॥ सः शरः ध्वजं छित्त्वा जगाम न तु केवलं जगाम ॥ १२ ॥ क्रोधादमपच्च प्रदहन्निव प्रदहन्नग्रिरिव सम्प्रदीप्तः ज्वलितः अभवत् ॥ १३ ॥ शरवर्ष वमन् ततः क्रोधाद्दशग्रीवः शरान सन्धाय वीर्यवान्। मुमोच ध्वजमुद्दिश्य राघवस्य रथे स्थितम् ॥ ८ ॥ ते शरास्त मनासाद्य पुरन्दररथध्वजम् । रथशक्तिं परामृश्य निपेतुर्धरणीतले ॥ ९ ॥ ततो रामोऽभिसंक्रुद्धश्चापमायम्य वीर्यवान् । कृतप्रतिकृतं कर्तुं मनसा सम्प्रचक्रमे ॥ १० ॥ रावणध्वजमुद्दिश्य मुमोच निशितं शरम्। महासर्प मिवासह्यं ज्वलन्तं स्वेन तेजसा ॥ १३ ॥ जगाम स महीं छित्त्वा दशग्रीवध्वजं शरः । स निकृत्तोऽपतद्भूमौ रावणस्य रथध्वजः ॥ १२ ॥ ध्वजस्योन्मथनं दृष्ट्वा रावणः सुमहाबलः । सम्प्रदीप्तोऽभवत् क्रोधादमर्षात् प्रदहन्निव ॥ १३॥ स रोषवशमापन्नः शरवर्षे महद्रमन् । रामस्य तुरगान् दीप्तैः शरैर्विव्याध रावणः ॥ १४ ॥ ते विद्धा हरयस्तत्र नास्खलन्नापि बभ्रमुः । बभूवुः स्वस्थहृदयाः पद्मनालैरिवाहताः ॥ १५ ॥ तेषामसम्भ्रमं दृष्ट्वा वाजिनां रावणस्तदा । भूय एव सुसंक्रुद्धः शरवर्ष मुमोच ह ॥ १६ ॥ गदाश्च परिघाश्चैव चक्राणि मुसलानि च । गिरिशृङ्गाणि वृक्षांच तथा शूलपरश्वधान् ॥ १७ ॥ मायाविहितमेतत्तु शस्त्रवर्षमपातयत् । तुमुलं त्रासजननं भीमं भीमप्रतिस्वनम् ॥ १८ ॥ तद्वर्षमभवद्युद्धे नैकशस्त्रमयं महत् । विमुच्य राघवरथं समन्ताद्वानरे बले ॥ १९ ॥
| वमन्निवेत्यर्थः ॥ १४ ॥ इरयः हरितवर्णाः, इन्द्राश्वत्वादिति भावः ॥ १५ ॥ ३६ ॥ गदाश्वेति । मुमोचेत्यनुषज्यते ॥ १७ ॥ धनुषा कथं गदादि मोचनमित्यत्राह-मायेति । शस्त्रवर्षे गदादिवर्षम् । मायाविहितम् आश्चर्यकरशक्तिकृतम् । तुमुलं नानाविधमित्यर्थः ॥ १८ ॥ नैकशस्त्रमयम् जयोऽवश्यम्भावीत्यर्थः ॥ ७ ॥ ८ ॥ ते शरा इति । रथशक्तं शक्तरथम्, दृढरथमिति यावत् । परामृश्य स्पृष्ट्वा रथशक्तिमिति पाठे दिव्यरथवैभवं स्थावयव ७ विशेषं वा ।। ९-१२ ॥ ध्वजस्येति । अमर्षात् असहनात ॥ १३-१८ ॥ तद्वर्षमिति । राघवरथं विमुख्य क्रोधातिशयेन प्रयुक्तत्वाल्लक्ष्यभूतं रामरथमतिक्रम्य
For Private And Personal Use Only
टी.यु.का.
स० १०९
॥३१७॥