________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirm.org
Acharya Shri Kalassagarsun Gyanmandir
सूचकनिमित्तानीत्यर्थः ॥ ३५ ॥ तत इति । रणे आत्मगतानि आत्मार्थ प्रादुर्भूतानि । हर्ष पुलकं निर्वृतिं सुखं च जगाम ॥ ३६ ॥ इति ।। श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अष्टोत्तरशततमः सर्गः ॥ १०८॥
ततो निरीक्ष्यात्मगतानि राघवोरणे निमित्तानि निमित्तकोविदः। जगाम हर्ष च परां च निर्वृतिं चकार युद्धे ह्यधिक च विक्रमम् ॥३६॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमयुद्धकाण्डे अष्टोत्तरशततमः सर्गः ।।१०८॥ ततः प्रवृत्तं सुक्रूर रामरावणयोस्तदा । सुमहद्वैरथं युद्धं सर्वलोकभयावहम् ॥ १॥ ततो राक्षससैन्यं च हरीणां च महदलम् । प्रगृहीतप्रहरणं निश्चेष्टं समतिष्ठत ॥२॥ सम्प्रयुद्धौ ततो दृष्ट्वा बलवन्नरराक्षसौ । व्याक्षिप्तहृदयाः सर्वे परं विस्मयमागताः ॥३॥ नानाप्रहरणैर्व्यग्रैर्भुजैर्विस्मितबुद्धयः । सर्पन्तं प्रेक्ष्य सङ्घामं नाभिजग्मुः परस्परम ॥४॥ रक्षसां रावणं चापि वानराणां च राघवम् । पश्यतां विस्मिताक्षाणां सैन्यं चित्रमिवांवभौ ॥५॥ तौ तु तत्र निमि तानि दृष्ट्वा रावणराधवौ । कृतबुद्धी स्थिरामर्षों युयुधाते ह्यभीतवत् ॥ ६ ॥ जेतव्यमिति काकुत्स्थो मर्तव्यमिति
रावणः । धृतौ स्ववीयेसर्वस्वं युद्धेऽदर्शयतां तदा ॥७॥ ततः प्रवृत्तमित्यादि । द्वैरथं द्वाभ्यां रथाभ्यां प्रवृत्तं युद्धं प्रवृत्तमिति योजना ॥ १॥ निश्चेष्टं समतिष्ठत, युद्धाद्भुतदर्शनकुतूहलादिति भावः ॥२॥ एतदेव विवृणोति द्वाभ्याम्-सम्प्रयुद्धावित्यादि । सम्प्रयुद्धौ सम्यग्यो मुपकान्तौ । कर्मणि कः । बलवत् अत्यन्तम्, व्याक्षिप्तहृदयाः युद्धदर्शनसक्त चित्ताः ॥३॥ नानेति । भुजेरित्युपलक्षणे तृतीया ॥४॥रावणं पश्यतां विस्मिताक्षाणां विकसितनेत्राणां रक्षसां सैन्यम् , राघवं पश्यतां विस्मिताक्षाणां वानराणां सैन्यं च चित्रमिवाबभौ ॥५॥ निमित्तानि दुनिमित्तानि शुभनिमित्तानि चेत्यर्थः। कृतबुद्धी निश्चितबुद्धी ॥६॥ निश्चयमेवाह-जेतव्यमिति ।। ॥३६॥ इति श्रीमहेश्वरतीयविरचितायां श्रीरामायणतत्वदीपिकाख्यायां युद्धकाण्डव्याख्यायाम् अष्टोत्तरशततमः सर्गः ॥१०८॥१॥ तत इति । निश्चेष्टं समतिष्ठन अत्यतयुद्धं दृष्ट्रेति भावः ॥ २ ॥ संप्रयुद्धौ सम्यम्योदुमुपक्रान्ती ॥३॥ नानेति। भुजैरुपलक्षिताः सर्पन्तं समीपमागच्छन्तं प्रेक्ष्य प्रेक्ष्यापि विस्मयात्परस्परं । नाभिजग्मुः, प्रहर्तुमिति शेषः॥४॥ चित्रमिव चित्रलिखितमिव ॥५॥ कृतबुद्धी निश्चितबुद्धी। अमीतवत अभीनाईम ॥4॥ निश्चयप्रकारमेवाह-जेनव्यमिति ।
For Private And Personal Use Only