SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir वा.रा.भू. पर्वतस्याङ्गे धाता इवेति योजना ॥ २६॥ गृधेरनुगताः गृध्रसहिता इत्यर्थः । शिकाः गोमायवः, मुखैज्वलनं वमन्त्यः सत्यः अस्य रावणस्य मुखवटो.यु.का. १३१६॥ मीक्षन्त्यः, रावणाभिमुखा इत्यर्थः । संरब्धं कुपितम्, अशिवम् अमङ्गलं च यथा भवति तथा प्रणेदुः । गृध्राणां साहित्यमात्रम्, नतु ज्वलनवमनादिकम् । GIR०१०८ २७॥ प्रतिकूलमिति । वायुः रणे पासून् समाकिरन्, तेन तस्य रावणस्य दृष्टिविलोपनं दृष्टिप्रतिघातं कुर्वन, प्रतिकृलम् अभिमुखं ववौ ॥ २८ ॥ गृधैरनुगताश्चास्य वमन्त्यो ज्वलनं मुखैः । प्रणेदुमुखमीक्षन्त्यः संरब्धमशिवं शिवाः ॥ २७॥ प्रतिकूलं ववौ वायू रणे पासून समाकिरन् । तस्य राक्षसराजस्य कुर्वन् दृष्टिविलोपनम् ॥ २८॥ निपेतुरिन्द्राशनयः सैन्ये चास्य समन्ततः। दुर्विषह्यस्वना घोरा विना जलधरस्वनम् ॥२९॥ दिशश्च प्रदिशः सर्वा बभूवुस्तिमिरावृताः। पांसुवर्षेण महता दुर्दर्श च नमोऽभवत् ॥३०॥ कुर्वन्त्यः कलहं घोरं शारिकास्तद्रथं प्रति । निपेतुः शतशस्तत्र दारुणं दारुणारुताः ॥ ३१ ॥ जघनेभ्यः स्फुलिङ्गांश्च नेत्रेभ्योऽश्रूणि सन्ततम् । मुमुचुस्तस्य तुरगास्तुल्यमग्निं च वारि च ॥३२॥ एवंप्रकाराबहवः समुत्पाता भयावहाः।रावणस्य विनाशाय दारुणाः सम्प्रजजिरे ॥३३॥ रामस्यापि निमित्तानि सौम्यानि च शुभानि च । बभूवुर्जयशंसीनि प्रादुर्भूतानि सर्वशः ॥३४॥ निमित्तानि च सौम्यानि राघवः स्वजयाय च । दृष्ट्वा परमसंहृष्टो हतं मेने च रावणम ॥ ३५ ॥ इन्द्राशनयः उल्काशनयः । उल्काशन्योः स्वरूपमुक्तं मिहिरेण- "उल्का शिरसि विशाला निपतन्ती वर्धते च तनुपुच्छा । अशनिःस्वनेन महता युक्ता नृगजाश्वतरूपशुमुखेपु । निपतति विदारयन्ती धरातलं चकसंस्थाना ॥” इति ॥२९ ॥ ३० ॥ रामानु-बुश च नमोऽवदिति पाठः ॥ ३० ॥ कुर्वन्त्य इति । तद्रथं प्रति तथोपरि ।। ३३ ।। तुरगाः जवनेभ्यः स्फुलिङ्गान् नेत्रेभ्यः अथाणे च मुमुचुः । एवमग्निं च वारि च तुल्यं यथा भवति तथा dमुमुचुः॥३२॥३३॥ एवं रावणपराजयसूचकदुनिमित्तान्युक्तानि, इदानी रामजयसूचकनिमित्तान्याह-रामस्यापीति । सोम्यानि मनोज्ञानि । शुभानि शुभोदकाणि । अत एव जयशंसानि निमित्तानि प्रादुर्बभूवुः सत्तां लेभिरे। रामविषये किञ्चित्कारो हे सत्तालाभहंतुः २४ जयाय निमित्तानि जय MIपा सूर्यरश्मयः रावणस्याङ्गे पनितास्सन्तोदृश्यन्त इति सम्बन्धः ॥ २५३५ ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy