________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
द्विरथं द्वाभ्यां स्थाभ्यां प्रवर्तितं युद्धम् ॥ १९॥ समुत्पेतुरिति । अत्रोत्पातानां राघवजयसूचकत्वं रावणवधद्वारा ॥ २०॥ देवः पर्जन्यः । मण्डलिनो वाताः वात्याः। अपसव्यम् अप्रदक्षिणम्, प्रचक्रमुः चेरुः ॥२०॥ अस्य रावणस्य रथो येन मार्गेण याति स्म तेन मार्गेण महत गृध्रकुलं नभः स्थले भ्रममाणं सत् प्रधावति स्म । अनेन रावणस्यासन्नमरणत्वं सूचितम् । तदुक्तं शकुनाणवे-“आसन्नमृत्योनिकटे चरन्ति गृध्रादयो मूर्ध्नि गृहोर्च
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। समयुरथं रष्टुं रावणक्षयकांक्षिणः ॥१९॥ समुत्पेतुरथोत्पाता दारुणा रोमहर्षणाः ।रावणस्य विनाशायराघवस्य जयाय च ॥ २० ॥ ववर्ष रुधिरं देवो रावणस्य रथोपरि । वाता मण्डलिनस्तीक्ष्णा ह्यपसव्यं प्रचक्रमुः ॥ २१ ॥ महद् गृध्रकुलं चास्य भ्रममाणं नभस्स्थले । येन येन रथो याति तेन तेन प्रधावति ॥ २२ ॥ सन्ध्यया चावृता लङ्का जपापुष्पनिकाशया। दृश्यते सम्प्रदीप्तेव दिवसेऽपि वसुन्धरा ॥२३॥ सनिर्घाता महोल्काश्च सम्प्रचेरुमहास्वनाः। विषादयंस्ते रक्षांसि रावणस्य तदाऽहिताः॥२४॥ रावणश्च यतस्तत्र सञ्चचाल वसुन्धरा । रक्षसां च प्रहरतां गृहीता इव बाहवः ॥२५॥ ताम्राः पीताः सिताश्वताः पतिताः
सूर्यरश्मयः। दृश्यन्ते रावणस्याङ्गे पर्वतस्येव धातवः ॥२६॥ भागे" इति ॥ २२ ॥ जपापुष्पनिकाशया सन्ध्यया लका आवृता। अत एव वसुन्धरा लापर्यन्तभूमिः रात्रावाग्निना संप्रदीप्तेव दिवसेऽपि सम्प्रदीप्ता दृश्यत इत्यर्थः ॥ २३ ॥ सनिर्धाता महोल्काः सम्पचेरुः । ते उल्काः। लिङ्गव्यत्ययः। रावणस्याहिताः प्रतिकूलाः सन्तः रक्षांसि विषादयन् व्यपा दयन् ॥ २४ ॥रामानु०-विषादयन् विषादयन्त्यः ॥ २४ ॥ यतः यत्र रावणो गतः तत्र वसुन्धरा सञ्चचाल, रावणसमीप एव भूकम्पो जात इत्यर्थः। गृहीता इव बाहवः, केश्विगृहीता बाहवो यथा प्रहर्तुं न क्षमन्ते तथाऽभूवन्नित्यर्थः ॥२५॥ ताम्रा इति । सिताः अश्वेताश्च सिताश्वेताः। पर्वतस्येवेति। जग्राहेत्यर्थः ॥ १७ ॥ १८॥ ततो देवा इति । द्वैरथं द्वाभ्या रथाभ्यां प्रवर्तितं युद्धं द्वैरथम् ॥ १९ ॥ २०॥ मण्डलिनः वाताः, वात्या इत्यर्थः ॥ २१॥ महदिति। गृहकुलस्य रावणरथानुगमनेन रावणस्यासनमरणत्वं सूचितम् । उक्तं च शकुनार्णवे-"आसनमुत्योनिकटे चरन्ति गृधादयो मूर्ध्नि गृहोर्ध्वमागे” इति ॥ २२ ॥ जपापुष्पनिकाशया सन्ध्यया, अकालिकयेति शेषः । लहा बुता अत एव वसुन्धरा, लङ्कापर्यन्तभूमिः । रात्रावग्निना सम्प्रदीप्तेव दिवसेऽपि संप्रदीप्ता दृश्यन इत्यर्थः ॥ २३ ॥ विषादयन् विषादयन्त्यः ते रक्षांसि तानि रक्षासि ॥ २४॥ रक्षसामित्यादि सार्धम् । प्रहरता रक्षसां बाहव इव पर्वतस्य धातव इव च ताम्रादि
For Private And Personal Use Only