________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पताकाध्वजमाली तम् । " मल मल्ल धारणे " इत्यस्माणिनिः ॥ २ ॥ प्रसन्तमिव । स्वविस्तारेणेति भावः । प्रणाशयतीति प्रणाशम् ॥ ३ ॥ रामानु०-पताकाध्वजमालिनं पताकायुक्तश्वासी ध्वज पताकाध्वजः पताकाध्वजश्च मालाश्च पताकाध्वजमाल तदस्यास्तीति पताकाध्वजमाली तम् । रावणस्य रथं क्षिप्रं चोदयामास सारथिः इत्यत्र द्वितीय रथसारथिशब्दावने कवि शेषणव्यवधानात्पूर्वोक्ताविस्मरणार्थी ॥ २ ॥ ३ ॥ तमिति । स्वनवन्तं शब्दवन्तम् । महास्वनं प्रतिध्वनियुक्तमित्यर्थः ॥ ४ ॥
२३.
Acharya Shri Kailassagarsuri Gyanmandir
ग्रसन्तमिव चाकाशं नादयन्तं वसुन्धराम् । प्रणाशं पर सैन्यानां स्वसैन्यानां प्रहर्षणम् । रावणस्य रथं क्षिप्रं चोदया मास सारथिः ॥ ३ ॥ तमापतन्तं सहसा स्वनवन्तं महास्वनम् । रथं राक्षसराजस्य नरराजो ददर्श ह ॥ ४ ॥ कृष्णवाजिसमायुक्तं युक्तं रौद्रेण वर्चसा । तडित्पताका गहनं दर्शितेन्द्रायुधायुधम् ॥ ५ ॥ शरधारा विमुञ्चन्तं धारा सारमिवाम्बुदम् । तं दृष्ट्वा मेघसङ्काशमापतन्तं रथं रिपोः ॥ ६ ॥ गिरेर्वच्चाभिमृष्टस्य दीर्यतः सदृशस्वनम् । विस्फार यन् वै वेगेन बालचन्द्रनतं धनुः ॥ ७ ॥ उवाच मातलिं रामः सहस्राक्षस्य सारथिम् ॥ ८ ॥ मातले पश्य संरब्ध मापतन्तं रथं रिपोः ॥ ९ ॥ यथाऽऽपसव्यं पतता वेगेन महता पुनः । समरे हन्तुमात्मानं तथा तेन कृता मतिः ॥ १० ॥ कृष्णवाजिसमायुक्तमित्यादिसार्धश्लोकत्रयमेकान्वयम् । रौद्रेण उग्रेण । तडित्पताकागहनं तडित्तुल्यपताकावनम् । दर्शितेन्द्रायुधायुधं दर्शितानीन्द्रा युधसदृशानि आयुधानि येन तम् । यद्वा दर्शितेन्द्रायुधानि स्वप्रभाविशेषविरचितेन्द्रचापान्यायुधानि यस्मिन् दृश्यन्ते तादृशम् । यद्वा आयुधं धनुः दर्शितेन्द्रधनुस्तुल्यधनुष्कम् ॥ ५ ॥ धारासारं धारासमूहमित्यर्थः || ६ || वज्राभिमृष्टस्य वज्राहतस्य । अत एव दीर्यतः भिद्यमानस्य । बालचन्द्र नतम् आरोपितमौर्वीकत्वेन वा उचन्द्रवन्नतम् ॥ ७ ॥ ८ ॥ मातले इत्यर्धमेकं वाक्यम् । संरब्धं वेगवन्तम् ॥ ९ ॥ यथापसव्यमिति । यथा आ अपसव्य एतादृशं रावणस्य रथं क्षिप्रं चोदयामास सारथिरिति सम्बन्धः । द्वितीयस्सारथिशब्दः अनेकविशेषणव्यवधानात पूर्वोक्तस्मरणार्थः ॥ १४ ॥ कृष्णेति । ति अस्पताकागहनं तडितुल्याभिः पताकाभिः गहनं सङ्कीर्णम । दर्शितेन्द्रायुधायुधं दर्शितानि इन्द्रायुधानि इन्द्रायुधसदृशान्यायुधानि येन तम् ॥ ५ ॥ ६ ॥ वच्चामि मृष्टस्य वज्राभिहतस्य ॥ २ ॥ अपसव्यं यथा तथा आपतना नेनेति सम्बन्धः ॥ १० ॥
स० [सारथिर्मातनिः
चोदयामास तं प्रति रावणस्य सारथिः रथं प्रचोदयामासेत्यन्वयेनानयो रथसारधिशब्दयोः पुनरुक्ततामीत्याऽनुवादताङ्गीकरण प्रयास उभयोरफलः ॥ ६ ॥
For Private And Personal Use Only