________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsu Gyanmandir
चा.रा.भ. ऋग्यजुस्सामपारगः । “ऋग्भिः पूर्वाह दिवि देव ईयते । यजुर्वेदे तिष्ठति मध्ये अह्नः । सामवेदेनास्तमये महीयते । वेदैरशून्यविभिरेति सूर्यः ॥” इति 1 टी.यु.का. १२॥ श्रुतेः। घना वृष्टियस्मादसौ पनवृष्टिः। “अग्नी प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिव॒ष्टरनं ततःप्रजाः॥” इति स्मृतेः । अत १०७
एवापां मित्रः। पुंल्लिङ्गत्वमार्षम् । दक्षिणायने विन्ध्यो वीथी सञ्चारभूमिर्यस्यासौ विन्ध्यवीथिः। पूर्व यथा तथा गच्छतीति पूवङ्गमः। विन्ध्यवाथीप्लव गम इत्येकपदत्वेन पाठे विन्ध्यवीथी गगनमार्गः ॥१३॥ आतपोऽस्यास्तीत्यात पी। मण्डलं वृत्ताकारो विम्बोऽस्यास्तीति मण्डली । मृत्युः विरोधि
आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः । कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः ॥ १४॥
नक्षत्रग्रहताराणामधिपो विश्वभावनः। तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तु ते ॥ १५॥ निवर्तकः । उदयसमये पिङ्गलवर्णत्वात् पिङ्गलः। सर्वानपि मध्याह्ने तापयतीति सर्वतापनः। कविः पण्डितः, व्याकरणादिसर्वशास्त्रप्रवर्तक इत्यर्थः । KIविश्वः विश्वनिर्वाहकः । महान्ति तेजांसि यस्य स महातेजाः। रक्तः सर्वेष्वनुरक्तः। सर्वेषां भवः संसारः उद्भवत्यस्मादिति सर्वभवोद्भवः ॥१४॥नक्षत्राणां
ग्रहाणां ताराणां चाधिपः । विश्वं भावयति स्थापयतीति विश्वभावनः। तेजसामन्यादीनां तेजसामाप तेजस्वी, प्रशस्ततेजाः। द्वादश आत्मानो मूर्तयो यस्य स द्वादशात्मा।तेच दर्शिताः स्मृतौ-“इन्द्रो धाता भगः पूषा मित्रोऽथ वरुणोऽयमा । आचर्षिवस्वान् त्वा च सविता विष्णुरेव च ॥" इति।। कवयो वयन्ति " इत्यादिश्रुतेः। विन्ध्यवीधीप्लवङ्गमः विन्ध्यवदुर्गमायां वीभ्यां सुषुम्णामार्गेण तवं शीघ्रं गमयतीति विन्ध्यवीथीप्लवङ्गमः, भुक्तपापक इत्यर्थः । “स एतान ब्रह्म गमयति । हार्दानुगृहीतशताधिकया" इत्यादिश्रवणात् ॥ १३ ॥ आतपी आ समन्तात्तपो जगनिर्माणसङ्कल्पोऽस्यास्तीति आतपी “ तप आलोचने " इति धातुः । “ यस्य ज्ञानमयं तपः" इत्यादिश्रुतेः । मण्डली मण्ड्यतेऽनेनेति मण्डलं कौस्तुभादि नदस्यास्तीति मण्डली । “ मडि भूषायाम " इति धातुः । मृत्युः अत्र मृत्युशम्दः प्रकृतिवाची, मृत्युशरीरक इत्यर्थः । “ यस्य मृत्युः शरीरम्" इति श्रुतेः । पिङ्गलः पिङ्गति मिलतीति पिङ्गलः । “पिन मेलने" इति धातुः । मेलनं सुशीलस्पेव सम्भवति, अतः पिङ्गलः। सोशील्पं नाम महात्मनो मूरैः सह नीरन्धेण संश्लेषः । सर्वतापनः युगपत्सकलाण्डसंहारकः कविः विदिताखिलवेद्यः " यः सर्वज्ञः सर्ववित्" इति श्रुतेः । विश्वः विश्वशरीरकः “विश्वमेवेदं पुरुषः" इति श्रुतेः । महातेजाः महत् निरवधिक तेजः परामि ॥१२॥ भवनसामर्थ्य यस्य सः । रक्तः सर्वरक्षकः । सर्वभवोद्भवः भवतीति भवः कार्यवर्गः, सर्वोत्पत्तिहेतुरित्यर्थः । यद्वा सर्वेषां भवः संसारो यस्मादुद्भवति स तथा ॥ १४ ॥ नक्षत्रग्रहताराणामधिपः नक्षवमहताराणामन्तर्यामीत्यर्थः । " यश्चन्द्रतारकमन्तरो यमयति" इत्यादिश्रुतेः। विश्वभावनः विश्वस्थितिहेतुः “द्यो! सनन्द्रार्कनक्षत्रं वं दिशो भूर्महोदधिः । वासुदेवस्य वीर्येण विभूतानि महात्मनः ॥” इति श्रवणात् । तेजसामपि तेजस्वी प्रशस्ततेजस्क इत्यर्थः । "येन सूर्य
For Private And Personal Use Only