________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
टी.यू.का. ०१७
था.रा.भू. इति धातोः “ राजसूयसूर्य-" इति निपातनात् क्यप्प्रत्ययो रुडागमश्च । खे गच्छतीति खगः, लोकोपकारार्थमाकाशे सञ्चरन्नित्यर्थः । वर्षेण ॥३१॥
पुष्णाति जगदिति पूषा । "श्वनुक्षन्-" इत्यादौ निपातितः । गभस्तयः किरणाः अस्य सन्तीति गभस्तिमान् । सुवर्णसदृशः सुवर्णवर्णः। “हिरण्यश्मश्रु हिरण्यकेश आप्रणखात् सर्व एव सुवर्णः" इति श्रुतेः । भातीति भानुः । “दाभाभ्यां नुः" इति नुप्रत्ययः । हिरण्यं रेतो यस्य स हिरण्यरेताः, हिरण्मय
हरिदश्वः सहस्रार्चिः सप्तसप्तिमरीचिमान् । तिमिरोन्मथनः शम्भुस्त्वष्टा मार्तण्ड अंशुमान् ॥ ११॥ ब्रह्माण्डकर्तेत्यर्थः । अक्षराधिक्यमार्फत्वात् । दिवा करोतीति दिवाकरः, दिवा आह्नि प्राणिनः चेष्टां करोतीति वा दिवाकरः ॥ १० ॥ तनि०-भूर्यः । स्थावरजङ्गमात्मकजगदन्तर्यामी सूर्यशब्दवाच्यः। “सूर्य आत्मा जगतस्तस्थुषश्च " इति श्रुतेः ॥ १० ॥ हरितः श्यामा अश्वा अस्य सन्तीति हरिदश्वः। सहस्रार्चिः सहस्रकिरणः । सप्तनामा सप्तिरश्वो यस्यासो सप्तसप्तिः। "एको अश्वो वहति सप्तनामा" इति श्रुतेः । मरीचयोऽस्य सन्तीति मरीचिमान्, प्रकाशवानित्यर्थः । तिमिराण्युन्मनातीति तिमिरोन्मथनः । शं सुखं भवत्यस्मादिति शम्भुः । डुप्रकरणे “मितद्वादिभ्य उपसङ्ख्यानम् " इति दुः। अध्यास्त इति खगः । “यो अम्याध्यक्षः परमे व्योमन " इति श्रुतेः । पूषा पुष्णानीति पूषा, स्थितिकतेत्यर्थः । "पुष पुष्टी" इति धातुः । गभस्तिमान् गा दिशं व्याप्य भास्ति प्रकाशयतीति गभस्तिः "भास दीप्ती" इति धातुः। पूषोदरादित्वात्साधुः। तथा च गभस्तिः सर्वव्यापिनी लक्ष्मीः तद्वान, लक्ष्मीनित्ययुक्त इत्यर्थः । नित्ययोगे मतुप् । “भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशाग्रने । संसर्गेऽस्तिविवक्षायां भवन्ति मतुवादयः ॥ " इत्यनुशासनात । लक्ष्म्याः सर्वव्यापि
त्वम्-" यथा सर्वगतो विष्णुस्तथैवेयं द्विजोत्तम" इति पराशरस्मरणारिसद्धम् । सुपर्णः शोभनो पर्णी पक्षी यस्य सः सुपर्णः परमात्मा। “द्वा सुपर्णा सयुजा पसखाया समानम्" इति श्रुतेः। तपनः तपतीति तपनः “तप सन्तापे""सखखप्तः परंतपः" इति स्मरणात् । सुवर्णसदृश इति पाठे-सुवर्णवर्ण इत्यर्थः ।।
"हिरण्यश्मश्रुहिरण्यकेश आप्रणखात्सर्व एव सुवर्णः" इति श्रुतेः भानुः भातीति भानुः"तमेव भान्तमनुभातिसर्वम" इति श्रुतेः। हिरण्यरेता हिरण्यं हिरण्मय | रेतः अण्डोत्पादकद्रव्यं यस्य सः। “अप एव ससर्जादौ तासु वीर्यमपासृजत् । तदण्डमभवद्वैम सहस्रांशुसमप्रभम् ॥” इति मनुस्मरणात । दिवाकरः अज्ञाननिवर्तन द्वारा दिवा युति ज्ञानं करोति व्युत्पादयतीति दिवाकरः ॥ १०॥ हरिदश्वः हरति मन इति हरित मनोहरः अश्वो वाहनं गरुडो यस्य सः। पृषदश्व इति वत् । सहस्राचिः, अर्च्यत इति अर्चिः अर्चिदशब्देन पूज्या मङ्गलगुणा उच्यन्ते, अनन्तकल्याणगुण इत्यर्थः । सप्तसप्तिः सप्ताख्यः सप्तिः अश्वो यस्य सः । "एको अश्वो वहति सप्तनामा" इति श्रुतेः । अनेन कल्क्यवतारस्सूचितः । मरीचिमान नियन्ते शत्रवोऽनेनेति मरीचिः चक्रं तद्वान । उपलक्षणमेतदितरायुधानाम् । शङ्खचक्रगदाधर इत्यर्थः। तिमिरोन्मथनः ज्ञानोत्पत्तिप्रतिबन्धकदोषनिवर्तकः ।" हृद्यन्तस्थो ह्मभद्राणि विधुनोति सुत्सताम्" इति स्मरणात् । शम्भुः शं सुख
११॥
For Private And Personal Use Only