________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ. ॥३१०॥
रश्मिभिलोंकाननुभावयतीति रश्मिभावनः, रश्मिभिः रक्षतीत्यर्थः । एतदेवाह-एष इति । देवासुरगणान् लोकान् देवासुरगणरूपान् जनानित्यर्थः। टो.यु.कां. पाति रक्षति । “याभिरादित्यस्तपति रश्मिभिस्ताभिः पर्जन्यो वर्षति" इति श्रुतेः।।७।। तनि०-अत्र देवासुरशब्दी तत्वत्प्रकृतिपरी । “ देवी सम्पद्विमोक्षाय निवस० १०७
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः। महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः॥८॥
पितरो वसवः साध्या ह्यश्विनी मरुतो मनुः । वायुवह्निःप्रजाप्राण ऋतुकतो प्रभाकरः॥ ९॥ न्धायासुरी मता" इति गीतोक्तेः । गभस्तिभिः तेजोलेशैः 'तेजोईशसंभवम्' इत्युक्ततेजोलेशैः॥७॥ सर्वदेवात्मकत्वमाह-एप ब्रह्मेत्यादिना। अयमेव ब्रह्मादिसमस्त देवताशरीरे वर्तत इत्यर्थः । प्रजापतिरिति जात्येकवचनम् । नव प्रजापतय उच्यन्ते । कालशब्देन मृत्युरुच्यते । यमस्तु ततोऽन्यः । मरुतः आवद्दादि सर्वदेवतामयत्वात्सम्भवतीति तस्य सर्वदेवतामयत्वं प्रतिपादयति-सर्वदेवात्मक इत्यादिना । सर्वदेवात्मकः सर्वदेवशरीरः " यः सर्वेषु देवेषु तिष्ठन्" इत्यादि श्रुतेः । तेजस्वी पराभिभवनसामर्थ्यवान् । रश्मिभावनः रश्मीन नित्यमुक्तान भावयति तत्सत्ता निर्वहतीति तथोक्तः, तेषां भगवन्नित्येच्छाधीनसत्ताकत्वात "नित्यं प्रियास्तव तु केचन ते हि नित्याः" इत्युक्तत्वात् । एष देवासुरगणान लोकान् पाति गभस्तिभिः इति। " अग्नौ प्रास्ता हुतिस्सम्यगादित्यमुपतिष्ठते । आदित्याजायते वृष्टिष्टेरनं ततः प्रजाः॥" इत्यायुक्तरीत्या वृष्टयन्त्रदानेन "देवान भावयतानेन ते देवा भावयन्तु वः" इति पुरोडाशादिदानेन च सर्वान पातीत्यर्थः । “याभिरादित्यस्तपति रश्मिभिस्ताभिः पर्जन्यो वर्षति" इत्यादिश्रुत्युक्तरीत्या गभस्तिभिः पातीत्युक्तम् ॥ ७॥ एष ब्रह्मेत्यादि । “य एषोऽन्तरा दित्ये हिरण्मयः पुरुषो दृश्यते" इत्युक्तयोगिजनसाक्षात्कारेण एष इति पुनः पुननिर्देशः । ब्रह्मा चतुर्मुखशरीरः । “तवान्तरात्मा मम च ये चान्ये देहिसंज्ञिता" इति शिवं प्रति चतुर्मुखवचनात् । विष्णुः उपेन्द्रावतारः। शिवः शिवशरीरकः “स ब्रह्मा स शिवः स हरिस्सेन्द्रः" इत्युभयत्रापि श्रुतेः। स्कन्दः "स्कन्दिर गतिशोषणयोः" इति धातोः, शत्रून शोषयतीति स्कन्दः, षण्मुखशरीरको वा। प्रजापतिः "प्रजापतिश्चरति गर्भ अन्तः" इत्युक्तप्रजापतिशब्दवाच्या महेन्द्रः स्वरूपत ऐश्वर्यतश्च निरवधिकः, “इन्द्र निचिक्युः परमे व्योमन । इन्द्रो मायाभिः पुरुरूप ईयते" इति श्रुतेः। धनद: “अनादो वसुदानः" इति। श्रुतिप्रसिद्धस्तकलफलमदः । कालः जगत्संहारक: "कालाय महाप्रासाय वै नमः" "अत्ता चराचरग्रहणात्" इति श्रुतिसूत्राभ्याम् "अनादिर्भगवान् कालः" इति पराशरस्मरणाच । यमः यमयति शिक्षयतीति यमः " यमो वैवस्वतो राजा यस्तवैष हदि स्थितः" इति मनुस्मरणात् । सोमः सूतेऽमृतमिति सोमः “प्रस
वर्ययोः" इति धातुः। “ सोमः पवते जनिता मतीना जनिता दिवः" इत्याधुक्तसकलकारणसोमशब्दवाच्यः । अापतिः " आपो नारा इति प्रोक्ता आपो ॥ वे नरसूनवः । ता यदस्यायनं पूर्व तेन नारायणः स्मृतः॥” इत्युक्तः । “अप एव ससर्जादो" इत्युक्तेश्चापछब्दवाच्यानां स्वामी ॥८॥ पितरः अग्निप्यात्तादयः। वसवः सदा वसन्तीति वसवः । ते चाष्टो-" ध्रुवो धरस्तथा सोम आपो वैश्वानरोऽनिलः । प्रत्यूषश्च प्रभासच वसवोऽष्टी प्रकीर्तिताः॥" यद्वा "अनिश्च पृथिवी
१०.
For Private And Personal Use Only