SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir एकान्वयः । तथा वाजिनां विश्रमहेतो श्वेत्यन्वयः । रौद्रं दुस्सहम् । वर्जयता अपनयता । हेतौ शतृप्रत्ययः । क्षमं युक्तम् । स्वेच्छया अपनयननिमित्तं विना ॥ २१ ॥ २२ ॥ भर्तृनेहेत्यर्धम् । मया यत्कृतं तदिदं भर्तृस्नेहपरीतेनैव कृतमित्यर्थः ॥ २३ ॥ आज्ञापयेति । यथातत्त्वं यत् कार्यस्वरूपं भर्तृस्नेहपरीतेन मयेदं यत्कृतं विभो ॥ २३ ॥ आज्ञापय यथातत्त्वं वक्ष्यस्यरिनिषूदन । तत्करिष्याम्यहं वीर गतानृण्येन चेतसा ॥ २४ ॥ सन्तुष्टस्तेन वाक्येन रावणस्तस्य सारथेः । प्रशस्यैनं बहुविधं युद्धलुब्धोऽब्रवीदिदम् ॥ २५ ॥ रथं शीघ्रमिमं सूत राघवाभिमुखं कुरु । नाहत्वा समरे शत्रून निवर्तिष्यति रावणः ॥ २६ ॥ एवमुक्त्वा ततस्तुष्टो रावणो राक्षसेश्वरः । ददौ तस्मै शुभं ह्येकं हस्ताभरणमुत्तमम् ॥ २७ ॥ श्रुत्वा रावणवाक्यं तु सारथिः संन्यवर्तत ॥ २८ ॥ ततो द्रुतं रावणवाक्यचोदितः प्रचोदयामास हयान् स सारथिः । स राक्षसेन्द्रस्य ततो महारथः क्षणेन रामस्य रणाग्रतोऽभवत् ॥ २९ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे षडुत्तरशततमः सर्गः ॥ १०६ ॥ वक्ष्यसि तत्तथा गतानृण्येन आनृण्यं गतेन, आनृण्यं कर्तव्यमिति कृतसङ्कल्पेन । चेतसा मनसा करिष्यामि || २४ || २५ || रथमिति । निवर्तिष्यति | निवर्तिष्यते ॥ २६-२८ ॥ तत इति । महांश्चासौ रथश्च महारथ इति विग्रहः ॥ २९ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने षडुत्तरशततमः सर्गः ॥ १०६ ॥ रौद्रं दुस्सहघटकम्, वर्जयता अपनयता । हेलो शत्प्रत्ययः । क्षमं युक्तम् । स्वेच्छया निमित्तं विना रथोऽयं नापवाहितः ॥ २१ ॥ २२ ॥ भर्तृस्नेहेति । मया यत्कृतं तदिदं भर्तृस्नेहपरीतेन कृतमित्यर्थः ॥ २३ ॥ यथातत्त्वं यत्कार्यस्वरूपम् । गतानृण्येन प्रेक्षितानृण्येन चेतसा करिष्यामीत्यर्यः ॥ २४-२९ ॥ इति श्रीमहेश्वरतीर्थ | विरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां युद्धकाण्डव्याख्यायां षडुत्तरशततमः सर्गः ॥ १०६ ॥ २२९ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy