SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | वशीकृत इत्ययं प्रतितर्कः सत्यः प्रतिभाति ॥ ७ ॥ न हीति । न त्वयैतत् स्वनुष्ठितमिति । त्वयाऽनुष्ठितमेतत् न तु स्वनुष्ठितं तत् ॥ ८ ॥ अध्यु | पितः सहवासी, सुहृदिति यावत् । उपधयोपसर्पितो वा । गुणाः सत्काराः ॥ ९ ॥ १० ॥ रामानु० निवर्तयेति । यदि वाऽध्युषितो वासि, चिरकालं मत्समीप इति न हि तद्विद्यते कर्म सुहृदो हितकांक्षिणः । रिपूणां सदृशं चैतन्न त्वयैतत् स्वनुष्ठितम् ॥ ८ ॥ निवर्तय रथं शीघ्रं यावन्नोपैति मे रिपुः । यदि वाऽध्युषितो वाऽसि स्मर्यन्ते यदि वा गुणाः ॥ ९ ॥ एवं परुषमुक्तस्तु हितबुद्धिरबुद्धिना । अब्रवीद्रावणं सूतो हितं सानुनयं वचः ॥ १० ॥ न भीतोऽस्मि न मूढोऽस्मि नोपजप्तोऽस्मि शत्रुभिः । न प्रमत्तो न निस्नेहो विस्मृता न च सत्क्रिया ॥ ११ ॥ मया तु हितकामेन यशश्च परिरक्षता । स्नेहप्रस्कन्नमनसा प्रियमित्य प्रियं कृतम् ॥ १२ ॥ नास्मिन्नर्थे महाराज त्वं मां प्रियहिते रतम् । कश्चिल्लघुरिवानार्यो दोषतो गन्तुमर्हसि ॥ १३ ॥ श्रूयतां त्वभिधास्यामि यन्निमित्तं मया रथः । नदीवेग इवाभोगे संयुगे विनिवर्तितः ॥ १४ ॥ श्रमं तवाव गच्छामि महता रणकर्मणा । न हि ते वीर सौमुख्यं प्रहर्ष वोपधारये ॥ १५ ॥ शेषः । स्मर्यन्ते यदि वा गुणाः, मन्निष्ठा उपकर्तृत्वादिगुणाः स्मर्यन्ते यदि ॥ ९ ॥ ॥ न भीतोऽस्मीति । नोपजप्तः उपजापं भेदं न गमितः । " भेदोपजापौ ” इत्यमरः | ॥ ११ ॥ १२ ॥ अस्मिन्नर्थे स्थापवाहनरूपेऽर्थे। कश्चित् कुत्रापि कुले जातः । लघुः अल्पबुद्धिः । अनार्यः दुष्टहृदय इव, मां दोषतः गन्तुं ज्ञातुं नार्हसि | गत्यर्था ज्ञानार्थाः ॥ १३॥ यन्निमित्तं यत्कारणात् । “निमित्तकारणहेतुषु सर्वासां प्रायदर्शनम्" इति प्रथमा । नदीति । आभोगे उन्नतप्रदेशे । आभोगा | नदीवेग इव रथः संयुगाद्विनिवर्तित इत्यर्थः । आभोगे संयुग इत्यत्र विभक्तिव्यत्ययः ॥ १४ ॥ श्रममिति । सौमुख्यं सुमुखत्वम् तन्मूलं प्रहर्षम् ॥ १५ ॥ नव हितकाङ्क्षिणः सुहृदः कर्म न, किन्तु रिपूजां सदृशं चैतत् अतः न त्वयैतत्स्वनुष्ठितम् स्वानुष्ठितमेतत्सुष्नुष्ठितं न भवतीत्यर्थः ॥ ८॥ यदिवाऽध्युषितश्चासि चिरकालं मत्समीप इत्यर्थः । स्मर्यन्ते यदि वा गुणाः उपकर्तृस्वादिमत्रिष्ठा गुणाः स्मर्यन्ते ॥ १॥ १० ॥ नोपजप्तः उपजापं भेदं न गमितः । “भेदोपजापावुपधा" इत्यमरः ॥ ११ ॥ स्नेहप्रस्कन्नमनसा स्नेहार्द्रहृदयेन ॥ १२ ॥ प्रियहिते रतं मां कचिदनार्य इव दोषतः गन्तुं नाईसि मयि दोषदृष्टिं कर्तुं नाईसीत्यर्थः ॥ १३ ॥ यनिमित्तं यस्मात्कारणात् नदीवेगवाम्भोभिः चन्द्रोदयादिना प्रवृद्धसमुद्रोदकैर्नदीवेग इव युद्धाद्रथः विनिवर्तिनः प्रतिनिवर्तितः तत् श्रूयतामिति सम्बन्धः । नदीवेग दवा भोग इति पाठे आभोगे पर्वताद्युन्नतप्रदेशे नदीवेग इवेत्यर्थः ॥ १४ ॥ रणकर्मणा युद्धेन ॥ १५ ॥ १६ ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy