________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kasagarsur Gyanmandir
www.kobatirth.org
वा.रा.भ.वि रामानुजीयम्-पदेत्यादि । शस्त्रं न प्रायुङ्ग, न रणार्थाय वर्तन्ते. छेदनभेदनादिरणप्रयोजनं कर्तुं यदा नाशलबन तदा सूतस्तस्य रथमपदाहयदिति सम्बन्धः ॥ २८-३० ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने पञ्चोत्तरशततमः सर्गः ॥१०५॥ ॥३०७||
स तु मोहात् सुसंक्रुद्धः कृतान्तबलचोदितः। क्रोधसंरक्तनयनो रावणः मूतमब्रवीत् ॥१॥ हीनवीर्यमिवाशक्तं पौरुषेण विवर्जितम् । भीरुं लघुमिवासत्त्वं विहीनमित्र तेजसा ॥२॥ विमुक्तमिव मायाभिरखौरव बहिष्कृतम् । मामवज्ञाय दुर्बुद्धे स्वया बुद्ध्या विचेष्टसे॥३॥किमर्थं मामवज्ञाय मच्छन्दमनवेक्ष्य च । त्वया शत्रोः समक्षं मेरथो ऽयमपवाहितः॥४॥ त्वयाऽद्य हिममानार्य चिरकालसमार्जितम् । यशो वीर्य च तेजश्च प्रत्ययश्च विनाशितः॥५॥ शत्रोः प्रख्यातवीर्यस्य रञ्जनीयस्य विक्रमैः । पश्यतो युद्धलुब्धोऽहं कृतः कापुरुषस्त्वया ॥६॥ यस्त्वं रथमिम मोहात् न चोदहसि दुर्मते । सत्योऽयं प्रतितों मे परेण त्वमुपस्कृतः ॥७॥ अथ रावणरथप्रत्यानयनं षदशततमे स तु मोहादित्यादि । मोहात् अविवेकात् ॥ १॥ हीनवीर्य मिवेत्यादिशोकद्वयमेकान्वयम् । यत्र यत्र इव शब्दो नास्ति तत्र तत्रानुपचनीयः। दीनवीयमिव हीनबलमिव । अशक्तमिव निरुत्साहमिव । असत्त्वमिव अधीरमिव । तेजसा परिभवासहनेन ॥२॥३॥ मच्छन्द मदभिप्रायम् । “वशाभिप्राययोश्छन्दः" इत्यमरः ॥ १॥ प्रत्ययः रावणस्य युधि पलायनं नास्तीति सर्वेषां विश्वासः । विनाशित इत्यस्य यशआदिषु लिङ्गविपरिणामः ॥५॥ शत्रोः पश्यतः शत्री पश्यति ॥६॥ यः नोवहसि अभिमुखं न प्रापयसि. किं त्वपवाहयसि । स त्वम् उपस्कृतः परेणोत्कोचादिना। शरासनं च न प्यकर्षत । अस्य रामस्य वीर्य स्ववीर्य च न प्रत्यकरोत न प्रतिजधान । तेन रामेण । रावणार्थाय रावणस्यार्थाय निवृत्तये पराजयाय क्षिप्ताः शराश्च यदा वर्तन्ते नदा मृत्युकालेऽभिवर्ततः अस्य रावणस्प सूतः रथमपवाहयदिति सम्बन्धः ॥२८-३०॥ इति श्रीमहेश्वरतीर्थ श्रीरामायणतत्वदीपिकाख्यायां युद्धकाण्डव्यारुयायां पक्षोत्तरशततमः सर्गः ॥१०५॥ स विति । मोहात अविवेकात् ॥१॥ हीनवीर्यमिव हीनविक्रममिव । अशक्तमिव निरुत्साहमिव । असत्वमिव अल्पवलमिव । तेजसा परामिभवसामध्न । विहीनमिवेति इयशस्य सत्र सम्बन्धः॥२॥३॥ गच्छन्दं मदभिप्रायम् ॥ ४॥प्रत्ययः रावणस्य युधि पलायनं| नास्तीति सर्वेषां विश्वासः ॥ ५॥ शत्रोः पश्यनः सतः त्वया अहं कापुरूषः कुत्सितपुरुषः कृतः॥६॥ उपस्कृनः उस्कोचादिना वशीकुतः । तर्कः उहः ॥७॥
Raon
For Private And Personal Use Only