________________
Shri Mahavir Jain Aradhana Kendra
श्री.रा.भू. ॥३०६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।
तैः धाराभूतेः वाणैः, तटाकमिव रामं पूरयत् अपूरयत् ॥ ३--८ ॥ तत इति । अन्योन्यं नोपालक्षयतामित्यन्वयः ॥ ९ ॥ १० ॥ मम अज्ञानात् ममा दर्शनात् स्वदविवेकादिति वा । ते त्वया ॥ ११ ॥ १२ ॥ स्त्रीष्विति । कापुरुषं कापुरुषसम्बन्धि || १३ || १४ || शूरेणेत्यादि सोपहासोक्तिः ॥ १५ ॥ ततोऽन्योन्यं सुसंरब्धावुभौ तौ रामरावणौ । शरान्धकारे समरे नोपालक्षयतां तद्ा ॥ ९ ॥ ततः क्रोधसमाविष्टो रामो दशरथात्मजः । उवाच रावणं वीरः प्रहस्य परुषं वचः ॥ १० ॥ मम भार्या जनस्थानाद्ज्ञानाद्राक्षसाधम हृता ते विवशा यस्मात्तस्मात्त्वं नासि वीर्यवान् ॥ ११ ॥ मया विरहितां दीनां वर्तमानां महावने । वैदेहीं प्रसभं हृत्वा शूरोऽहमिति मन्यसे ॥ १२ ॥ स्त्रीषु शुर विनाथासु परदाराभिमर्शक । कृत्वा कापुरुषं कर्म शूरोऽहमिति मन्यसे ॥ १३ ॥ भिन्नमर्याद निर्लज्ज चारित्रेष्वनवस्थित । दर्पान्मृत्युमुपादाय शूरोऽहमिति मन्यसे ॥ १४ ॥ शूरेण धनदभ्रात्रा बलैः समुदितेन च । श्लाघनीयं यशस्यं च कृतं कर्म महत्त्वया ॥ १५ ॥ उत्सेकेनाभिपन्नस्य गर्हितस्या हितस्य च । कर्मणः प्राप्नुहीदानीं तस्याद्य सुमहत् फलम् ॥ १६ ॥ शूरोऽहमिति चात्मानमवगच्छसि दुर्मते । नैव लज्जाऽस्ति ते सीतां चोरखद व्यपकर्षतः ॥ १७ ॥ यदि मत्सन्निधौ सीता धर्षिता स्यात्त्वया बलात् । भ्रातरं तु खरं पश्येस्तदा मत्सायकैर्हतः ॥ १८ ॥ दिष्ट्वाऽसि मम दुष्टात्मंश्चक्षुर्विषयमागतः । अद्य त्वां सायकै स्तीक्ष्णैर्नयामि यमसादनम् ॥ १९ ॥ अद्य ते मच्छरैश्छिन्नं शिरो ज्वलितकुण्डलम् । क्रव्यादा व्यपकर्षन्तु विकीर्ण रणपांसुषु ॥ २० ॥
उत्सेकेन गर्वेण ॥ १६-१९ ॥ अद्य त इति । शिरो ज्वलितकुण्डलमित्यनेन तदानीमन्तकाले रावण एकशिरस्कः स्थित इति गम्यते ॥ २० ॥ तत इति । अन्योन्यं नोपालक्षयतामिति सम्बन्धः ॥ ९ ॥ १० ॥ अज्ञानात् अविवेकात् । विवशा ममादर्शनादिति भावः ॥ ११-१४ ॥ शुरेणेत्याक्षेपोक्तिः । | कर्म कापुरुषसम्बन्धि श्लाघनीयमित्यादि व्यतिरेकोक्तिः ॥ १५ ॥ अभिपत्रस्य अनुष्ठितस्य ॥ १६-२० ॥
For Private And Personal Use Only
टी.पु.की.
स० [१०५
॥ ३०६ ॥