________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पत्रिभित्रिभिरिति प्रयोगभेदान्न पुनरुक्तिः। पत्रिभिः पत्रवद्भिरित्येके ॥३०॥ स इति । समूहस्थः युद्धस्थः ॥३१॥ स रामबाणैरिति । समाजे युद्धे ॥३२॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने चतुरुत्तरशततमः सर्गः ॥१०॥
स शरैभिन्नसर्वाङ्गो गात्रप्रसुतशोणितः। राक्षसेन्द्रः समूहस्थः फुल्लाशोक इवाबभौ ॥३१॥ स रामबाणैरभिविद्धगात्रो निशाचरेन्द्रःक्षतजागात्रः । जगाम खेदं च समाजमध्ये क्रोधं च चक्रे सुभृशं तदानीम् ॥ ३२ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे चतुरुत्तरशततमः सर्गः ॥ १०४ ॥ स तेन तु तथा क्रोधात् काकुत्स्थेनार्दितो रणे । रावणः समरश्लाघी महाक्रोधमुपागमत् ॥ १॥ स दीप्तनयनो रोषा चापमायम्य वीर्यवान् । अभ्यर्दयत् सुसंक्रुद्धो राघवं परमाहवे ॥ २ ॥ बाणधारासहस्रेस्तैः स तोयद इवाम्बरात् । राघवं रावणो वाणैस्तटाकमिव पूरयत् ॥ ३॥ पूरितः शरजालेन धनुर्मुक्तेन संयुगे। महागिरिरिवाकम्प्यः काकु त्स्थो न प्रकम्पते ॥४॥ स शरैः शरजालानि वारयन् समरे स्थितः। गभस्तीनिव सूर्यस्य प्रतिजग्राह वीर्यवान ॥५॥ ततः शरसहस्राणि क्षिप्रहस्तो निशाचरः । निजघानोरसि क्रुद्धो राघवस्य महात्मनः॥६॥ स शोणित समादिग्धः समरे लक्ष्मणाग्रजः। दृष्टः फुल्ल इवारण्ये सुमहान किंशुकद्रुमः॥७॥ शराभिघातसंरब्धःसोऽपि जग्राह
सायकान् । काकुत्स्थः सुमहातेजा युगान्तादित्यतेजसः ॥ ८॥ अथ श्रान्तस्य रावणस्य सूतेन स्थापवाहनं पञ्चशततमे स तु तेनेत्यादि ॥ १ ॥२॥ बाणधारेति । बाणधारासहस्रैः हेतुभिः, तोयद इव रावणः, Kau ३१ ॥ ३२ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायो युद्धकाण्डव्याख्यायो चतुरुत्तरशततमः सर्गः ॥ १०४ ॥ १॥ २ ॥ बाणधारेति ।
अम्परातोयद इव स रावणः तटाकमिव तोयैः, वाणैः वाणन्ति शब्दायन्त इति वाणाः तेः बाणधारासहस्रः राघवं पूरयत अपूरयदिति सम्बन्धः ॥३-८॥
For Private And Personal Use Only