________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
॥३०५॥
स०१०
त्वां विनिहत्य रक्षोभिः समं करिष्यामीत्यर्थः । “तुल्याङ्कः-" इत्यादिना षष्ठी ॥ १९॥२०॥ तदिति । विद्युज्ज्वाला विद्युत्सदृशज्वाला ॥२१-२८टी .यु.का.
एवमुक्त्वा स चिक्षेप तच्छूलं राक्षसाधिपः॥२०॥ तद्रावणकरान्मुक्तं विधुज्ज्वालासमाकुलम् । अष्टघण्टं महानादं वियद्गतमशोभत ॥२३॥ तच्छूलं राघवो दृष्ट्वा ज्वलन्तं घोरदर्शनम् । ससर्ज विशिखान् रामश्चापमायम्य वीर्यवान ॥२२॥ आपतन्तं शरौघेण वारयामास राघवः । उत्पतन्तं युगान्ताग्निं जलौघेरिव वासवः॥२३॥ निर्ददाह स तान् बाणान् रामकार्मुकनिस्सृतान्। रावणस्य महाशूलः पतङ्गानिव पावकः ॥ २४ ॥ तान् दृष्ट्वा भस्मसादभूतान् शूल संस्पर्शचूर्णितान् । सायकानन्तरिक्षस्थान राघवः क्रोधमाहरत् ॥२५॥ स तां मातलिनाऽऽनीता शक्तिं वासवनिर्मि ताम् । जग्राह परमक्रुद्धोराघवोरघुनन्दनः॥२६॥सा तोलिता बलवता शक्तिघण्टाकृतस्वना। नमःप्रज्वालयामास युगान्तोल्केव सप्रभा ॥२७॥ सा क्षिप्ताराक्षसेन्द्रस्य तस्मिन् शूले पपात ह । भिन्नः शक्त्या महान् शूलो निपपात हतद्युतिः॥ २८ ॥ निर्विभेद ततो बाणैर्हयानस्य महाजवान् । रामस्तीक्ष्णैर्महावेगैर्वज्रकल्पैः शितैः शरैः॥२९॥ निर्विभेदोरसि ततो रावणं निशितैः शरैः । राघवः परमायत्तो ललाटे पत्रिभित्रिभिः ॥३०॥ निर्बिभेदेति । बाणैः शब्दायमानः । “अण बाण शन्दे" इत्यस्मात् पचाद्यच । बाणशब्दः शरभेदसंज्ञेत्यप्याहुः ॥२९॥ निविभेदोरसि तत इति ।।
लोऽयं वजसार इन्यादिसार्धश्लोकद्वयस्य वास्तवार्थस्तु-मया उद्यतः मे शलः तव भ्रातृसहायस्य धात्रे लक्ष्मणाय सहायस्य वानरसमूहस्येत्यर्थः । सधः प्राणान हरिष्यतीति सम्बन्धः। रक्षसामित्यादिसार्धश्लोकमेकं वाक्यम् । शूरे सत्यपि एषोऽहं त्वां न निहन्मि अतः त्वं तिष्ठ, किन्तु त्वा निहत्य आगत्येत्यर्थः । “हन हिंसागत्योः" इति धातोरयमर्थः । निहताना शूराणां रक्षसाम् । तृतीया षष्ठी। समं करोमि, वानरानिति शेषः । निहतराक्षसप्रतीकारार्थ वानरान् हनिष्यामीति भावः ॥ १९ ॥ २०॥ तदिति । विद्यज्वालासमाकुलं विद्युत्सहशज्वाला विद्यज्वाला: तामिाप्तम् ॥ २१-२८॥ निर्विभेदेति । बाणैः बाणवद्भिः, शब्दायमान ३.५॥ रित्यर्थः ॥ २९ ॥ पत्रिभिः पत्रवद्भिः ॥ ३०॥
सम्मः तिर्महावेगैर्वाणवद्भिरजिलगैः । इति पाठः । बाणवद्भिः “वण शब्दे वाणेन्येके" इत्युक्तः शम्दापमानैः । बाणवद्रिः केचित्प्रधानेषु साक्षाज्याविसृष्टेविषु तेम्पोऽपि राममाहात्म्येन निस्सरन्ति वाण । इति वाणानां वाणचच्च सम्भवतीति वा तयोक्तिः ॥ २९ ॥
For Private And Personal Use Only