________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shri Kalassagarsun Gyanmandir
भूदित्यस्यया रावणं वर्धयन्तीति बोध्यम् ॥८॥ एतस्मिन्नन्तर इत्यादिश्लोकचतुष्टयमेकान्वयम् । राघवस्य कोधात् राघवविषयकोधात् । प्रहरणम् । आयुधम्, स्पृशन् परामृशन् । किं वेदानी ग्रहीतुमुचितामति क्षणं चिन्तयनित्यर्थः । कूटैः शिखराकारैरयःशङ्कुभिः, चितं युक्तमित्यर्थः । अतिरौद्रं । एतस्मिन्नन्तरे क्रोधादाघवस्य स रावणः । प्रहर्तुकामो दुष्टात्मा स्टशन प्रहरणं महत् ॥९॥ वजसारं महानादं सर्व शत्रुनिबर्हणम् । शैलशृङ्गनिभैः कूटैश्चितं दृष्टिभयावहम् ॥ १०॥ सधूममिव तीक्ष्णाग्रं युगान्तानिचयोपमम् । अतिरौद्रमनासाद्यं कालेनापि दुरासदम् ॥ ११॥ त्रासनं सर्वभूतानां दारणं भेदनं तदा । प्रदीप्तमिव रोषेण शूलं जग्राह रावणः ॥ १२ ॥ तच्छूलं परमक्रुद्धो मध्ये जग्राह वीर्यवान् । अनेकैः समरे शरै राक्षसैः परिवारितः॥१३॥ समुद्यम्य महाकायो ननाद युधि भैरवम् । संरक्तनयनो रोषात् स्वसैन्यममिहर्षयन् ॥ १४ ॥ पृथिवीं चान्तरिक्षं च दिशश्च प्रदिशस्तथा । प्राकम्पयत्तदा शब्दो राक्षसेन्द्रस्य दारुणः ॥ १५ ॥ अतिनादस्य नादेन तेन तस्य दुरा त्मनः । सर्वभूतानि वित्रेसुः सागरश्च प्रचुक्षुभे ॥ १६ ॥ स गृहीत्वा महावीर्यः शूलं तद्रावणो महत् । विनद्य सुमहा नादं रामं परुषमब्रवीत् ॥ १७॥ शूलोऽयं वजसारस्ते राम रोषान्मयोद्यतः। तव भ्रातृसहायस्य सद्यः प्राणान् हरिष्यति ॥ १८॥ रक्षसामद्य शूराणां निहतानां चमूमुखे । त्वां निहत्य रणश्लाघिन करोमि तरसा समम् । तिष्ठे दानी निहन्मि त्वामेष शूलेन राघव ॥ १९॥ रौद्रं शूलमतिवर्तमानम् । अनासाद्यं शत्रुभिरप्रधृष्यम् । कालेन यमेन । दारणं ककचवत् कृन्तनम् । भेदनम् द्विधाकरणम् । दुष्टात्मा रावणः राघवस्य क्रोधात् प्रहर्तुकामः महत्पहरणं स्पृशन् सन् वज्रसारत्वादिविशिष्टं शूलं रोषेण प्रदीप्त इव स्थितो रावणो जग्राहेति सम्बन्धः ॥९-१६ ॥ विनद्येति । पूर्व शूलोद्यमनजनितोत्साहकृतो नाद उक्तः । इह प्रक्षेपजनितोत्साहकृतो नाद इति विवेकः ॥ १७॥ १८॥ रक्षसामित्यादिसार्धश्चोकमेकान्वयम् । रामरावणपक्षपातात्पुरासुराश्च परस्परं कलहायमाना इत्यर्थः॥७-१८॥ रक्षसामिति । त्वां निहत्य निहताना रक्षसां समं करिष्यामि, रक्षोभिस्सम करिष्यामीत्यर्थः।।
For Private And Personal Use Only