________________
Shri Mahavir Jain Aradhana Kendra
.रा.भू. ॥ २७ ॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
भावः । रत्नसञ्चयैः सम्बाधं सम्पूर्णम् । अत एव भोगिनां सर्पाणां भवनमिव स्थितम् || ६ || तेजोविस्तृतरश्मिवान् तेजः शरीरकान्तिस्तदेव विस्तृत रश्मिरस्यास्तीति तथा । महाद्युतिः महाप्रभः । अभ्रमिवेत्युपमया तद्भवनं विभीषणस्य तेजोपहारकमिति व्यज्यते । एवं गृहोत्कर्षवर्णनं रावणस्य अनीत्या सर्वमेकपदे नष्टमिति ज्ञापनाय ॥ ७ ॥ पुण्यान् पुण्यकरान् । पुण्याहघोषान् पुण्याहमन्त्रघोषान् । विजयसंश्रितान् विजयफलकानित्यर्थः । तं महाभ्रमिवादित्यस्तेजोविस्तृत रश्मि (मा) वान् । अग्रजस्यालयं वीरः प्रविवेश महाद्युतिः ॥ ७ ॥ पुण्यान पुण्याह घोषांश्च वेदविद्भिरुदाहृतान् । शुश्राव सुमहातेजा भ्रातुर्विजयसंश्रितान् ॥ ८ ॥ पूजितान् दधिपात्रैश्च सर्पिर्भिः सुमनोक्षतैः । मन्त्रवेदविदो विप्रान् ददर्श सुमहाबलः ॥ ९ ॥ स पूज्यमानो रक्षोभिर्दीप्यमानः स्वतेजसा । आस नस्थं महाबाहुर्ववन्दे धनदानुजम् ॥ १० ॥ स राजदृष्टिसम्पन्नमासनं हेमभूषितम् । जगाम समुदाचारं प्रयुज्या चारकोविदः ॥ ११॥ स रावणं महात्मानं विजने मन्त्रिसन्निधौ । उवाच हितमत्यर्थे वचनं हेतुनिश्चितम् ॥ १२ ॥ उदाहृतान् उच्चारितान् ॥ ८ ॥ दधिपात्रैः दधियुक्तपात्रैः । मन्त्रवेदविदः मन्त्रब्राह्मणविदः । मन्त्राः कर्मसु विनियुक्ताः “ इषे त्वा" इत्यादयः । कर्म चोदना ब्राह्मणानि ॥ ९ ॥ पूज्यमानः श्लाघ्यमानः ॥ १० ॥ दृष्टिसम्पन्नं दृष्ट्या निवेदितमित्यर्थः । समुदाचारं जयशब्दप्रयोगादिसमुदाचारम् । जगाम आरुरोह ॥ ११ ॥ विजने मन्त्रिव्यतिरिक्तजनरहिते । इतुनिश्चितं हेतुभिर्युक्तिभिर्निश्चितम् ॥ १२ ॥
आप्तैः हितैः पर्याप्तॆः कार्यनिर्वहणसमर्थः । निर्यूहो द्वारम् । " निर्यूहशिखरे द्वारे" इति विश्वः । गन्धर्वाणामिवालयं तौर्यत्रिकमुखरितत्वात् । आलयं मरुतामिव ऐश्वर्यातिशयात् । भवनं भोगिनामिव परैः प्रवेष्टुमशक्यत्वाच्च । आलयापेक्षया तमित्युक्तिः । तेजोविस्तृतर हिमवान तेजः स्वशरीरस्थं तेन विस्तृता विसृता विश्रुता वारमयो यस्य । अनेन पाठत्रयं सूचितम् ॥ १-७ ॥ पुण्यानिति । विजयसंश्रितान विजयमुद्दिश्य प्रवृत्तान् ॥८॥ पूजितांस्ति लपात्रैश्चेति पाठः । तिलपात्रैः दान विशेषैः । सर्पिभिः आज्यावेक्षणदानैः । मन्त्रवेदविदः मन्त्रब्राह्मणविदः कर्मणि विनियुक्तो वेदभागो मन्त्रः, कर्मचोदना ब्राह्मणानि ॥९॥ १० ॥ राजदृष्टिसम्पन्नं राजदृष्टचे क्षितम्। समुदाचारं प्रयुज्य विजयप्रयोगादिविनयप्रकाशकाचारं कृत्वा ॥ ११ ॥ स रावणमित्यादि श्लोकद्रयमेकं वाक्यम् । हेतुनिश्चितं युक्तिनिश्चितार्थम् ।
For Private And Personal Use Only
टी.यु.का. स० १०
॥ २७ ॥