________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
अथ हितपरो विभीषणः सत्त्वोत्तरकाले रावणस्योपदेष्टुं तद्गृहं गत इत्याह-तत इत्यादि, प्रविवेश महाद्युतिरित्यन्तमेकं वाक्यम् । ततः प्रत्युषसी पात्यनेन लङ्कादाहानन्तरमेकमहो गतमित्यवगम्यते । प्राप्तधर्मार्थनिश्चयः सीताप्रदानमेवास्माकं धर्मोऽर्थश्चेति कृतनिश्चयः । भीमकर्मा परमार्थतो राव णस्य हितत्वेऽप्यनभिमतार्थविज्ञापनरूपसाहसकरणात् भीमकर्मेत्युक्तिः। राक्षसाधिपतेः अग्रजस्य । आलयं निवासभूतं वेश्म प्रविवेशति सम्बन्धः। ॥१॥ शैलायचयसङ्काशं गिरिशिखरचयसदृशम् । अनेकशृङ्गयुक्तत्वादिति भावः । शैलशृङ्गमिवोन्नतमित्यौनत्ये दृष्टान्तः। सुविभक्तमहाकक्ष्यं सुष्ठ ततः प्रत्युषसि प्राप्त प्राप्तधर्मार्थनिश्चयः। राक्षसाधिपतेर्वेश्म भीमकर्मा विभीषणः ॥१॥ शैलायचयसङ्काशं शैल शृङ्गमिवोन्नतम् । सुविभक्तमहाकक्ष्यं महाजनपरिग्रहम् ॥ २॥ मतिमद्भिर्महामात्रैरनुरक्तैरधिष्ठितम् । राक्षसैश्चाप्त पर्याप्तः सर्वतः परिरक्षितम् ॥ ३ ॥ मत्तमातङ्गनिश्वासैाकुलीकृतमारुतम् । शङ्खघोषमहाघोषं तूर्यनादानु नादितम् ॥ ४॥प्रमदाजनसम्बाधं प्रजल्पितमहापथम् । तप्तकाञ्चननियूहं भूषणोत्तमभूषितम् ॥५॥ गन्धर्वाणा
मिवावासमालयं मरुतामिव । रत्नसञ्चयसम्बाधं भवन भोगिनामिव ॥ ६॥ विभक्तमहाप्रकोष्ठम् । “कक्ष्या प्रकोष्ठे हादेः काच्या मध्येभवन्धने " इत्यमरः। महाजनैः विद्वद्भिः परिगृह्यत इति महाजनपरिग्रहम् । तदधिष्ठित । मित्यर्थः ॥२॥ महामात्रैः प्रधानः । “महामात्राः प्रधानाः स्युः" इत्यमरः। आप्तपर्याप्त कार्यकरणदरिति महामात्रविशेषणम् ॥३॥ व्याकुलीकृत मारुतं चक्रवातीकृतवायुम् । शङ्कयोषमहाघोष शङ्कयोषेण महान् घोषो यस्य तथोक्तम् । तूर्यनादानुनादितं तूर्यनादेन सातप्रतिध्वनिम् ॥ ४॥ प्रजल्पितमहापर्थ सातमहाकलकलमहामार्गम् । तप्तकाञ्चननि!हं द्रुतकनकमयमत्तवारणम् । “निहो मत्तवारणः” इत्यमरः । भूषणोत्तमैः तोरण वितानप्रभृतिभिर्भूषितम् ॥५॥ गन्धर्वाणामिवावासम्, तौर्यत्रिकमुखरितत्वादिति भावः। मरुतां देवानाम् आलयमिव, निरवधिकैश्वर्यसम्पन्नत्वादिति तत इत्यादि श्लोकसप्तकमेकं वाक्यम् । प्राप्तधर्मार्थनिश्चयः प्राप्तो धर्मार्थनिश्चयो येन सः। राक्षसाधिपतेर्वेश्म प्रविवेश विभीषणः इति पाटे तूत्तरपटकस्यैतत्पश्चार्थत्वान अग्रजस्थालयं वीरः प्रविवेश महायुतिरित्यनेनापौनरुक्त्यम् । राक्षसाधिपतेर्वेश्म भीमकर्मा विभीषणः इति पाठे राक्षसाधिपतेरनजस्यालयं नित्यनिवासभूत वेश्मेत्यन्षयः । अस्मिन् पाठे तु वेदमालययोरपोनरुत्यम् । " आकेशग्रहणान्मित्रमहिनेभ्यो निवारयेत् " इति न्यायेन सर्वात्मना हितमेव वक्तव्यमित्यभिप्रेत्य रावणानभिमतहितोपदेशे प्रवृत्तवादीमकर्मेन्युक्तिः । शैलानचयसङ्काशं बहुभिः स्वशिखरैः गिरिनिकरसन्निकाशमित्यर्थः । महामात्रै प्रधानपुरुषैः । आप्तपर्याप्तः
१८२
For Private And Personal Use Only