________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ. १२६॥
स्याद्विषये मोक्षे शब्दवाच्ये प्रयोजने । व्यवहारे धने शास्त्रवस्तुहेतुनिवृत्तिषु ॥” इति वैजयन्ती ॥ १६॥ बहुदोपप्रदर्शनपूर्वकं सीताप्रदानस्यावश्य टी.यु.को कर्तव्यतामाह-ननः क्षममित्यादिना ॥ १७ ॥ यावद्दारयते दारयिष्यति । “ यावत्पुरानिपातयोर्लट्" इति भविष्यदर्थे लट् । राम इति शेषः ॥१८॥Hस. ननःक्षमं वीर्यवता तेन धर्मानुवर्तिना। वैरं निरर्थकं कर्तुं दीयतामस्य मैथिली ॥ १७॥ यावन्न सगजा साश्वां बहुरत्नसमाकुलाम् । पुरी दारयते वाणैर्दीयतामस्य मैथिली ॥ १८ ॥ यावत् सुघोरा महती दुर्द्धर्षा हरिवाहिनी । नावस्कन्दति नो लङ्का तावत्सीता प्रदीयताम् ॥ १९॥ विनश्येद्धि पुरी लङ्का शराः सर्वे च राक्षसाः। रामस्य दयिता पत्नी स्वयं न यदि दीयते ॥२०॥ प्रसादये त्वां बन्धुत्वात्कुरुष्व वचनं मम । हितं पथ्यमहं ब्रूमि दीयता मस्य मैथिली ॥ २३ ॥ पुरा शरत्सूर्यमरीचिसन्निभान् नवाग्रपुङ्खान सुदृढ़ानृपात्मजः । सृजत्यमोघान विशिखान वधाय ते प्रदीयतां दाशरथाय मैथिली ॥ २२ ॥ त्यज स्वकोपं सुखधर्मनाशनं भजस्व धर्म रतिकीर्तिवर्द्धनम् । प्रसीद जीवेम सपुत्रवान्धवाः प्रदीयतां दाशरथाय मैथिली ॥ २३ ॥ विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः । विसर्जयित्वा तान सर्वान प्रविवेश स्वकं गृहम् ॥२४॥ इत्यार्षे श्रीरामायणे श्रीमद्युद्धकाण्डे नवमः सर्गः ॥९॥ यावत् यदा । तावत्तदा । नावस्कन्दति न रुणद्धि ॥ १९॥ शूरा इति । विनश्येयुरिति व्यत्ययेन योजनीयम् । स्वयं न यदि दीयत इति पाठः ॥२०॥ मि ब्रवीमि । अस्य अस्मै ॥ २१ ॥ अयं शल्यम्, पुडं शरमूलम्, नवे अग्रपङ्के येषां ते । अत एव सुदृढान् पुरा सृजति सक्ष्यति । दशरथस्यायं . दाशरथः । “तस्येदम्" इति सम्बन्धार्थे अण् । सम्बन्धश्चात्र पुत्रत्वम् । दाशरथाय दाशरथये ॥२२॥ रतिः सुखम् ॥ २३ ॥ विभीषणेति । सवै| प्रातरालोचयिष्याम इति विभीषणप्रमुखान् विसृज्येत्यर्थः ॥२४॥ इति श्रीगोविन्द श्रीरामा रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने नवमः सर्गः ॥९ ॥२६॥ अतः सा परित्याज्या । कलहाथै कलहप्रयोजनविषये कृतेन, कर्मणेति शेषः । किमिति योजना ॥ १५ ॥ १६ ॥ अस्य अस्मै ॥ १७ ॥ यावदारयते दारयिष्यति
"यावत्पुरा-"इत्यादिना भविष्यदर्थे लट । तावत् दीयताम् ॥ १८ ॥ नावस्कन्दति नारोक्ष्यति । १९ ॥ २०॥ ब्रूमि ब्रवीमि ॥२१॥ पुरा सृजति म्रक्ष्यति । नवाम पापवान् नवानि अप्राणि पुङ्खाश्च येषां तान् ॥ २२-२४ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां युद्धकाण्डव्याख्यायर्या नवमः सर्गः ॥९॥
For Private And Personal Use Only