________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
सावधानम् । तुशब्दोऽवधारणे । बले स्थित स्थिरबलमित्यर्थः। जितरोषम् अकाले रोषरहितमित्यर्थः। इच्छथेति पूर्व रावणं प्रति वचनम्, अब सर्वान् प्रतीति बहुवचनम् ॥१०॥राम इदानी देवानुपड़त इत्यत्र उदाहरणमाइ-समुद्रमिति । स्पष्टम् ॥ ११॥ बलानीति । परेषां रामादीनाम्
॥१२ ॥ अनपराधिनि निष्कारणबरकरणमप्यपरमनुचितमित्याह-किं चेत्यादि.॥ १३ ॥ रामानु -कि चेत्यस्य किमिति पदच्छेदः । किन्तु राक्षसराजस्थति सवा पाठः ॥ १३ ॥ खरवध एव प्रथमापराध इत्याशङ्कचाइ-खर इति । दुर्वृत्ततया स्ववधप्रवृत्तखरवघे रामस्य नापकारगन्धोऽपीति भावः । निहतो यदि,
समुद्रं लवयित्वा तु घोरं नदनदीपतिम् । कृतं हनुमता कर्म दुष्करं तर्कयेत वा ॥ ११ ॥ बलान्यपरिमेयानि वीर्याणि च निशाचराः। परेषां सहसाऽवज्ञा न कर्तव्या कथंचन ॥१२॥ किं च राक्षसराजस्य रामेणापकृतं पुरा।
आजहार जनस्थानाद्यस्य भार्या यशस्विनः॥ १३ ॥ खरो यद्यतिवृत्तस्तु रामेण निहतो रणे । अवश्यं प्राणिनां प्राणा रक्षितव्या यथाबलम् ॥ १४॥ अयशस्यमनायुष्यं परदाराभिमर्शनम् । अर्थक्षयकरं घोरं पापस्य च
पुनर्भवम् ॥ १५॥ एतन्निमित्तं वैदेह्या भयं नः सुमहद्भवेत् । आहृता सा परित्याज्या कलहार्थे कृतेन किम् ॥१६॥ तत्र को दोष इति शेषः । दोषाभावमाह-अवश्यमिति ॥ १४ ॥ प्रथमं रामेणापकृतत्वेप्यनेकदोषमूलं सीतापहरणं न कार्यमित्याह--अयशस्यमिति । पुनर्भवं जन्मान्तरम्, मूर्त्यन्तरमिति यावत् ॥ १५॥ एवं सामान्यतः परदाराभिमर्शनस्यानर्थहेतुत्वमुक्त्वा प्रकृते तदर्शयति-पतदिति । एतस्मा निमित्तादित्यर्थः । “निमित्तकारणहेतुषु सर्वासांप्रायदर्शनम्" इति पञ्चम्यर्थे प्रथमा । अयशस्यत्वादिहेतवेदह्या सकाशात्सुमहद्भयं भवेत् । तर्हि किमि M दानी कर्तव्यम् ? तबाह-आतेति । उत्तम वस्तु कर्थ त्यक्तव्यम् ? तत्राह कलहाथै कृतेन किमिति । कलहाथै विषये कृतेन कर्मणा किमित्यर्थः। “अर्थःM भिमुख्यन इच्छथेत्युक्तिः । अत पवोपरि निशाचरा इति सम्बोधनम् ॥ १० ॥ समुद्रमित्यादि श्लोकद्वयमेकं वाक्यम् । 'कृतं हनुमता कर्म दुष्करं तर्कयेत वा इति पाठः । को वा तर्कयतेत्यर्थः । बलान्यपरिमेयानि, कृतानीति शेषः ॥११॥१२॥ किश्चेत्यादि श्लोकद्वयमेकं वाक्यम् । किञ्चेत्यत्र किमिति छेदः । खरदूषणादि अवधादामस्य पूर्वापकारित्वमाशय परिहरति-वर इति । यस्मात्तस्मादित्यध्याहार्यम् । यस्मादवश्य प्राणिनां प्राणा रक्षितव्याः तस्मादतिवृत्तः । स्वयमेव राम हन्तुं प्रवृत्तः खरस्तु निहतो यदि, पतायता रामेण पुरा राक्षसराजस्य किमपकृतम् नापकृतमित्यर्थः ॥ १२ ॥ १४ ॥ अयशस्पमित्यादि सोकद्धयम् । परदारामि मर्शनम् अयशस्यादिरूप पुनस्तदुपरि पापस्य च भवम् उत्पत्तिस्थानम् । एतनिमित्तम् एतस्मात्कारणात आहता वैदेही नोभयं भयनिमित्तम् । वैदेही भयमिति पाठ
For Private And Personal Use Only