SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir NI वा.रा.भ. ॥३.३॥ PAGE श्र टी.पु.का. इत्युक्त इति । सम्परिक्रम्य प्रदक्षिणीकृत्य । लोकान् लक्ष्म्या विराजयन् चन्द्रप्रभयेव स्वकान्त्या सर्वलोकान् प्रकाशयन्नित्यर्थः ॥ १४-१८॥ ते दीप्त वदना इति । व्यादितास्याःव्यात्ताननाः । भयानकाः भयङ्कराः॥१९॥ तैरिति । दीप्तभोगैः दीप्तफणैः । “भोगः सुखे ख्यादिभृतावहेश्च फणकाययोः" इत्युक्तः सम्परिक्रम्य रथं समभिवाद्य च । आरुरोह तदा रामो लोकान् लक्ष्म्या विराजयन् ॥ १४ ॥ तद्रभूवाद्धतं युद्धं तुमुलं रोमहर्षणम् । रामस्य च महाबाहो रावणस्य च रक्षसः ॥१५॥ स गान्धर्वेण गान्धर्व दैवं दैवेन राघवः। असं राक्षसराजस्य जघान परमास्त्रवित् ॥ १६ ॥ अस्त्रं तु परमं घोरं राक्षसं राक्षसाधिपः । ससर्ज परमक्रुद्धः पुन रेव निशाचरः ॥ १७॥ ते रावणधनुर्मुक्ताः शराः काञ्चनभूषणाः । अभ्यवर्तन्त काकुत्स्थं सर्पा भूत्वा महाविषाः ॥१८॥ ते दीप्तवदना दीप्तं वमन्तो ज्वलनं मुखैः। राममेवाभ्यवर्तन्त व्यादितास्या भयानकाः ॥ १९॥ तैर्वासुकि समस्पर्शेर्दीप्तभोगैर्महाविषैः । दिशश्च सन्तताः सर्वाः प्रदिशश्च समावृताः ॥ २० ॥ तान् दृष्ट्वा पन्नगान् रामः समापतत आहवे । अस्त्रं गारुत्मतं घोरं प्रादुश्चक्रे भयावहम् ॥२३॥ ते राघवशरा मुक्तारुक्मपुङ्खा शिखिप्रभाः। सुपणोः काञ्चना भूत्वा विचरुः सर्पशत्रवः ॥२२॥ ते तान् सवांन शरान् जघ्नुः सर्परूपान् महाजवान् । सुपर्णरूपा रामस्य विशिखाः कामरूपिणः ॥ २३॥ अस्त्र प्रतिहते क्रुद्धो रावणो राक्षसाधिपः। अभ्यवर्षत्तदा रामं घोराभिः शरवृष्टिभिः ॥ २४॥ ततः शरसहस्रेण राममक्लिष्टकारिणम् । अर्दयित्वा शरौघेण मातलिं प्रत्यविध्यत ॥२५॥ इत्यमरः । प्रदिशः दिक्कोणाः ॥ २० ॥ तान् दृष्ट्वेति । प्रादुश्चके प्रयुयुजे ॥ २१ ॥ त इति । शिखिषभाः अग्निप्रभाः। सुपर्णाः गरुडाः ॥ २२-२५॥ पूर्वश्लोकस्थदत्तशब्दः एतचापादिषु यथायोग्यं लिङ्गवचनविपरिणामेन योजनीयः ॥ १२ ॥ १३ ॥ सम्परिक्रम्य प्रदक्षिणीकृत्य ॥ १४-१८ ॥ व्यादिताम्या व्यादितवदनाः ॥ १९ ॥ २० ॥ प्रादुश्चक्रे प्रयुयुजे ॥ २१॥ शिख्रिप्रभाः अप्रिप्रभाः ॥ २२-२५॥ ॥३०॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy