________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsur Gyanmandir
www.kobatirth.org
अथेन्द्ररथमारुह्य सङ्ग्रामस्त्रिशततमे-लक्ष्मणेनेत्यादि ।।१-५॥ तत इत्यादिसाश्चोकत्रयमेकान्वयम् । कूबरः युगाधारदारु । “कूबरस्तु युगन्धरः" इत्यमरः। काञ्चनापीडैः काञ्चनालङ्कारः। श्वेतप्रकीर्णकेः श्वेतचामरैः। “चामरंतु प्रकीर्णकम्" इत्यमरः। हरिभिः हरितवर्णैः। रुक्मवेणुध्वजः कनकदण्ड
लक्ष्मणेन तु तद्वाक्यमुक्तं श्रुत्वा स राघवः। सन्दधे परवीरघ्नो धनुरादाय वीर्यवान् । रावणाय शरान् घोरान् विससर्ज चमूमुखे ॥ १ ॥ अथान्यं रथमारुह्य रावणो राक्षसाधिपः। अभ्यद्रवत काकुत्स्थं स्वर्भानुरिव भास्क रम् ॥ २॥ दशग्रीवो रथस्थस्तु रामं वजोपमैः शरैः। आजघान महाघोरैर्धाराभिरिव तोयदः ॥ ३॥ दीप्तपावक सङ्काशैः शरैः काञ्चनभूषणैः । निर्बिभेद रणे रामो दशग्रीवं समाहितम् ॥ ४॥ भूमौ स्थितस्य रामस्य स्थस्थस्य च रक्षसः । न समं युद्धमित्याहुदेवगन्धर्वदानवाः ॥९॥ ततः काञ्चनचित्राङ्गः किङ्किणीशतभूषितः । तरुणादित्य सङ्काशो वैडूर्यमयकूबरः ॥६॥ सदश्वैः काञ्चनापीडैर्युक्तः श्वेतप्रकीर्णकैः । हरिभिः सूर्यसङ्काशैहेमजालविभू षितैः ॥ ७॥ रुक्मवेणुध्वजः श्रीमान देवराजरथो वरः । देवराजेन सन्दिष्टो रथमारुह्य मातलिः ॥८॥ अभ्यवर्वत काकुत्स्थमवतीर्य त्रिविष्टपात् ॥९॥ अबवीच्च तदा रामं सप्रतोदो रथे स्थितः। प्राञ्जलिर्मातलिक्यिं सहस्राक्षस्य सारथिः॥ १०॥ सहस्राक्षेण काकुत्स्थ रथोऽयं विजयाय ते । दत्तस्तव महासत्त्व श्रीमन् शत्रुनिबर्हण ॥1॥ इदमैन्द्र महच्चापं कवचं चाग्निसन्निभम् । शराश्चादित्यसङ्काशाः शक्तिश्च विमला शिता ॥१२॥ आरुह्येमं रथं वीर
राक्षसं जहि रावणम् । मया सारथिना राजन् महेन्द्र इव दानवान् ॥ १३॥ चजः।देवराजरथ इति । य इति शेषः । योऽस्ति तमारुह्येत्युत्तरत्रान्वयः। सन्दिष्टः चोदितः॥६-८॥त्रिविष्टपात् स्वर्गात्॥९॥अब्रवीचेति । प्रतोदः अश्वप्रेरण काष्ठम् ॥ १०॥ सहस्राक्षेणेत्यादिश्लोकद्वयमेकान्वयम् । इदमिति । अत्र चापादिषु यथायोग्यं दत्त इत्येतल्लिङ्गवचनविपरिणामेन योजनीयम्॥११-१३॥ ॥१-५॥ तत इत्यादि सार्धलोकवयमेक वाक्यम् । कूबरो पुगाधारदारु । "कूबरस्तु युगन्धरः" इत्यमरः ॥ ६॥ कामनापीडे स्वर्णालङ्कारः। श्वेतप्रकीर्णके शुचचामरैः । “चामरं तु प्रकीर्णकम्" इत्यमरः । हरिमिः हयैः एतेः देवराजरथो वरः, योऽस्तीति शेषः । तमारुह्येत्युत्तरेण सम्बन्धः ॥७-११॥ ददमिति । अब
For Private And Personal Use Only