SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir Shri Mahavir Jain Aradhana Kendra वा.रा.भ.प.अनवोदित्यादिश्लोकद्वयमेकान्वयम् ॥ ३९-११॥नामिति । तां प्रतिज्ञा रावणं हत्वा विभीपणमभिपेक्ष्यामीत्येवरूपाम् ॥४२॥४३॥ नेराश्यमिति गटा .यु.का. ॥३०॥ निराश्य सीतायां विजये चोपेक्षाम् ॥४४॥न जीवन्निति । यास्यते यास्यति ॥ ४५ ॥ अहं त्विति । कृतकर्मा कृतसञ्चारः ॥ १६॥ यदीति । कृतास. १०१ एोहीत्यब्रवीद्रामो लक्ष्मणं परवीरहा । सस्वजे स्नेहगाढं च बाष्पपर्याकुलेक्षणः ॥ ३८ ॥ अब्रवीच्च परिष्वज्य सौमित्रिं राघवस्तदा । दिष्टया त्वां वीर पश्यामि मरणात् पुनरागतम् ॥ ३९ ॥ न हि मे जीवितनाथः सीतया चापि लक्ष्मण । को हि मे विजयेनार्थस्त्वयि पञ्चत्वमागते ॥४०॥ इत्येवं वदतस्तस्य राघवस्य महात्मनः । खिन्नः शिथिलया वाचा लक्ष्मणो वाक्यमब्रवीत् ॥४१॥ तां प्रतिज्ञा प्रतिज्ञाय पुरा सत्य पराक्रम । लघुः कश्चिदिवासत्त्वो नैवं वक्तुमिहार्हसि ॥ ४२ ॥ न हि प्रतिज्ञां कुर्वन्ति वितथा साधवोऽनघ । लक्षणं हि महत्त्वस्य प्रतिज्ञापरिपालनम् ॥४३॥ नैराश्यमुपगन्तुं ते तदलं मत्कृतेऽनघ । वधेन रावणस्याद्य प्रतिज्ञामनु पालय॥४४॥ नजीवन यास्यते शत्रुस्तव बाणपथं गतः। नर्दतस्तीक्ष्णदंष्टस्य सिंहस्येव महागजः ॥ ४५ ॥ अहं तु वधमिच्छामि शीघ्रमस्य दुरात्मनः। यावदस्तं न यात्येष कृतकर्मा दिवाकरः ॥४६॥ यदि वधमिच्छसि रावणस्य सङ्खये यदि च कृतां त्वमिहेच्छसि प्रतिज्ञाम् । यदि तव राजवरात्मजाभिलाषः कुरु च वचो मम शीघ्रमद्य वीर ॥४७॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमयुद्धकाण्डे व्युत्तरशततमः सर्गः ॥ १०२॥ नियूठाम् ॥ १७॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने व्युत्तरशततमः सर्गः ॥ १०२॥ तो प्रतिज्ञामिति । ' अहं हत्वा दशग्रीवं सपहस्तं सवान्धवम् । राजानं त्वां करिष्यामि लङ्काया राक्षसेश्वर" इत्येषरूपां प्रतिज्ञाम् ॥ ४२-४७ ॥ इति श्रीमहे | श्वरतीर्थविरचिताय श्रीरामायणतत्त्वदीपिकाख्यायां युद्धकाण्डव्याख्यायां द्वजुत्तरशततमः सर्गः ॥ १० ॥ ३०२॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy